Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 220
________________ S a kanda Acharya ShatkadassigaisanGyanmantire CRECORG AMALACHERECRECRUKHRS लतायाम् । एतेन ' अखण्डाद्वयानन्दैकरसब्रह्मज्ञानमेव केवलज्ञान, तत एव चाविद्यानिवृत्तिरूपमोक्षाधिगम' इति वेदान्तिमतमपि निरस्तम्, तादृशविषयाभावेन तज्ज्ञानस्य मिथ्यात्वात्, कीदृशं च ब्रह्मज्ञानमज्ञाननिवर्तकमभ्युपेयं देवानांप्रियेण, न केवलचैतन्यं,तस्य सर्वदा सत्त्वेनाविद्याया नित्यनिवृचिप्रसङ्गात्,ततश्च तन्मूलसंसारोपलब्ध्यसम्भवात्सर्वशाखानारम्भप्रसङ्गादनुभवविरोधाच, नापि वृत्तिरूपं, वृत्तेः सत्यत्वे तत्कारणान्ताकरणाविद्यादेरपि सच्चस्यावश्यकत्वेन तया तन्निवृत्तेरशक्यतया सर्ववेदान्तार्थविप्लवापत्तेः, मिथ्यात्वे च कथमज्ञाननिवर्तकता । न हि मिथ्याज्ञानमज्ञाननिवर्तकं दृष्टम्, स्वमज्ञानस्यापि तत्त्वप्रसङ्गात् । न च "सत्यस्यैव चैतन्यस्य प्रमाणजन्यापरोक्षान्तःकरणवृत्त्यभिव्यक्तस्याज्ञाननिवर्तकत्वाद्वृत्तेश्च कारणतावच्छेदकत्वेन दण्डत्वादिवदन्यथासिद्धत्वेन कारणत्वानगीकारात् , अवच्छेदकस्य कल्पितत्वेऽप्यवच्छेद्यस्य वास्तवत्वं न विहन्यते, यद्रजतत्वेन भातं तच्छुक्तिद्रव्यमितिवत्, तार्किकैरप्याकाशस्य शब्दग्राहकत्वे कर्णशष्कुलीसम्बन्धस्य कल्पितस्यैवाबच्छेदकत्वाङ्गीकारात, संयोगमात्रस्य निरवयवे नभसि सर्वात्मना सत्वेनातिप्रसञ्जकत्वात् । मीमांसकैश्च कल्पितइस्वत्वदीर्घत्वादिसंसर्गावच्छिन्नानामेव वर्णानां यथार्थशानजनकत्वोपगमाद्ध्वनिधर्माणां ध्वनिगतत्वेनैव भानात , वर्णानां च विभूनामानुपूर्वीविशेषाज्ञानादतिप्रसङ्गात, वर्णनिष्ठत्वेन इस्वत्वादिकल्पनस्य तेषामावश्यकत्वात् , तद्वदस्माकमपि कल्पितावच्छेदकोपगमे को दोष" इति मधुसूदनतपस्वि. नोऽपि वचनं विचारसह, मिथ्याग्दृष्टान्तस्य सम्यग्दृशां ग्रहणानौचित्यात् , नैयायिकमीमांसकोक्तस्थलेऽपि अनन्तधर्मात्मकैकवस्तुस्वीकारे कल्पितावच्छेदककृतविडम्बनाया अप्रसरात,विस्तरेणोपपादितं चैतत्सम्मतिवृत्तौ । न चोक्तरीत्या वृत्तेरवच्छेदकत्वमपि युक्तं,प्रतियोगितयाऽज्ञाननिवृत्तौ सामानाधिकरण्येन समानविशेष्यकसमानप्रकारकवृत्तरेव त्वन्मते हेतुत्वस्य युक्तत्वात्। अत एव RRIGIBAGES केवलज्ञाननिरूपणे बह्मज्ञानलक्ष णकेवल| शानस्याविद्यानिवृत्तिलक्षणमोक्षहेतुत्वमितिवेदा. न्तिमतस्य खण्डन,तत्र| मधुसूदनोतरपाकरण ञ्च । Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254