Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 234
________________ Shri Mahavir Jain Aradhana Kendra www.ketafirth.org केचिनि भद्रानुयायिनो भणन्ति- 'यदा जानाति तदा न पश्यति जिन' इति । सूत्रं - "केवली णं मंते इमं रयणप्पमं पुढवि आयारहिं पाणी हेऊदि संठाणेहि परिवारहिं जं समयं जाणइ णो तं समयं पासह १, ईता गोयमा ! केवली णं" इत्यादिकं अवलम्बमानाः । अस्य च सूत्रस्य किलायमर्थस्तेषामभिमतः - 'केवली सम्पूर्णबोधः, णमिति वाक्यालङ्कारे । भंते इति भगवन् ! इमां रत्नप्रभा मन्वर्थाभिधानां पृथ्वीमा कारैः समनिम्नन्ननादिभिः, प्रमाणै र्घ्यादिभिः, हेतु भिरनन्तानन्तप्रदेशिकैः स्कन्धैः, संस्थानैः परिमण्डलादिभिः, परिवारैर्धनोदधिवलयादिभिः । जं समयं णो तं समयमिति च 'कालाध्वनोरत्यन्तसंयोगे' (पा. २-३-५.) इति द्वितीया सप्तमीबाधिका, तेन यदा जानाति न तदा पश्यतीति मावः । विशेषोपयोगः सामान्योपयोगान्तरितः, सामान्योपयोगच विशेपोपयोगान्तरितः, तत्स्वाभाव्यादिति प्रश्नार्थः । उत्तरं पुनः 'हंता गोयमा 'इत्यादिकं प्रश्नानुमोदकं इंतेत्येतन्निगमनप्रकार, गौतमेति गोत्रेणा मंत्रणं प्रश्नानुमोदनार्थं पुनस्तदेव सूत्रमुच्चारणीयं हेतु प्रश्नस्य चात्र सूत्रे उत्तरं । “सागारे से नाणे हवइ, अणागारे से दंसणे" इति,साकारं विशेषावलम्बि अस्य केवलिनो ज्ञानं भवति, अनाकारमतिक्रान्ताविशेषं सामान्यावलम्बि दर्शनं । न चानेकप्रत्ययोत्पतिरेकदा निरावरणस्यापि तत्स्वाभान्यात् । न हि चतुर्दर्शनकाले श्रोत्र ज्ञानोत्पत्तिरुपलभ्यते । न चावृतत्वाचदा तदनुत्पत्तिः, स्वसमयेऽप्यनुत्पत्तिप्रसङ्गात् । न चाणुना मनसा यदा यदिन्द्रियसंयोगस्तदा तज्ज्ञानमिति क्रमः परत्राद्यभिमतोऽपि युक्तिमान् ः, सर्वाङ्गीणसुखोपलम्भाद्युपपचये मनोवर्गणा पुद्गलानां शरीरव्यापकत्वस्यैव कल्पनात् सुषुप्तौ ज्ञानानुत्पत्तये त्वमनोयोगस्य ज्ञान - सामान्ये हेतुत्वेन रासनकाले त्वाचरासनो भयोत्पत्तिवारणस्येत्यमप्यसम्भवाच्च । ततो युगपदनेकप्रत्ययानुत्पचा स्वभाव एव कारणं नान्यत्, सन्निहितेऽपि च द्वयात्मके विषये सर्वविशेषानेव केवलज्ञानं गृह्णाति, सर्वसामान्यानि च केवलदर्शन मिति स्वभाव १९ For Print And Personal Use Only Acharya Shal Kalassagarsun Gyanmandir केवलज्ञानानिरूपणे केवलज्ञानदर्शनोपयो गविषये मोपयोग द्यभिमतम ज्ञापनाविंशतितमपदसू त्रार्थः क्रमो पयोगसाध कोपपत्त्युपदर्शनं च ॥

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254