Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra श्रीज्ञान बिन्दु प्रकरणम् ॥ ॥ ११५ ॥ www.khatirth.org श्रोत्रज्ञानं घ्राणज्ञानमित्यादिव्यपदेश एव हि तत्रोपलभ्यते, न तु श्रोत्रदर्शनं प्राणदर्शनमित्यादिव्यपदेशः क्वचिदागमे प्रसिद्धः, तर्हि चक्षुष्यपि तथैव गृह्यतां चक्षुर्ज्ञानमिति नतु चक्षुर्दर्शनमिति । अथ तत्र दर्शनम्, इतरत्रापि तथैव गृह्यतां युक्तेस्तुल्यत्वात् । कथं तर्हि शास्त्रे चक्षुर्दर्शनादिप्रवाद इत्यत आह-" नाणमपुट्ठे जो अविसए अ अत्यंमि दंसणं होई ॥ मुत्तण लिंगओ जं, अणागयाईयविसएसु ।।२-२५।। " अस्पृष्टेऽर्थे चक्षुषा य उदेति प्रत्ययः स ज्ञानमेव सच्चक्षुर्दर्शनमित्युच्यते इन्द्रियाणामविषये च परमाण्वादावर्थे मनसाय उदेति प्रत्ययः स ज्ञानमेव सदचक्षुर्दर्शनमित्युच्यते । अनुमित्यादिरूपे मनोजन्यज्ञानेऽतिप्रसङ्गमाशङ्कयाऽऽह, अनागतातीतविषयेषु यलिङ्गतो ज्ञानमुदेति 'अयं काल आसन्नभविष्यदृद्दृष्टिकस्तथाविधमेघोन्नतिमत्त्वात्, ' 'अयं प्रदेश आसन्नवृष्टमेघः पूरविशेषवच्चाद्' इत्यादिरूपं तन्मुक्त्वा । इदमुपलक्षणं, भावनाजन्यज्ञानातिरिक्त परोक्षज्ञानमात्रस्य तस्यास्पृष्टाविषयार्थस्यापि दर्शनत्वेनाव्यवहारात् । यद्यस्पृष्टाविषयार्थज्ञानं दर्शनमभिमतं तर्हि मनःपर्यायज्ञानेऽतिप्रसङ्ग इत्याशङ्कय समाधत्ते - "मणपञ्जवनाणं दंसणं ति तेणेह होइ ण य जुत्तं । भन्नइ नाणं णोई दियंमि ण घडादओ जम्हा ॥२- २६ ॥ ' एतेन लक्षणेन मनःपर्यायज्ञानमपि दर्शनं प्राप्तं, परकीयमनोगतानां घटादीनामालम्व्यानां तत्रासच्वनास्पृष्टेऽविषये च घटादावर्थे तस्य भाना (बा)त्, न चैतद्युक्तं, आगमे तस्य दर्शनत्वेनापाठात् । भण्यतेऽत्रोत्तरम् - नोइन्द्रिये मनोवर्गणाख्ये मनोविशेषे प्रवर्तमानं मनःपर्यायबोधरूपं ज्ञानमेव, न दर्शनं, यस्मादस्पृष्टा घटादयो नास्य विषय इति शेषः, नित्यं तेषां लिङ्गानुमेयत्वात् । तथा चागमः (विशेषावश्यक गाथा ८१४ ) - " जाणइ बज्झे णुमाणाओं ति " मनोवर्गणास्तु परात्मगता अपि स्वाश्रयात्मस्पृष्टजातीया एवेति न तदंशेऽपि दर्शनत्वप्रसङ्गः । परकीय मनोगतार्थाकारविकल्प एवास्य ग्राह्यः, तस्य चोभ For Print And Personal Use Only Acharya Shri Kalassagarsun Gyanmandir केवलज्ञाननिरूपणे केवलज्ञान दर्शनोपयोग प्रसङ्गे मतिज्ञानदर्शन दृष्टान्तेन तत्त्वनिरू पणम् ॥ ।।। ११५ ।।

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254