________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
CRECORG
AMALACHERECRECRUKHRS
लतायाम् । एतेन ' अखण्डाद्वयानन्दैकरसब्रह्मज्ञानमेव केवलज्ञान, तत एव चाविद्यानिवृत्तिरूपमोक्षाधिगम' इति वेदान्तिमतमपि निरस्तम्, तादृशविषयाभावेन तज्ज्ञानस्य मिथ्यात्वात्, कीदृशं च ब्रह्मज्ञानमज्ञाननिवर्तकमभ्युपेयं देवानांप्रियेण, न केवलचैतन्यं,तस्य सर्वदा सत्त्वेनाविद्याया नित्यनिवृचिप्रसङ्गात्,ततश्च तन्मूलसंसारोपलब्ध्यसम्भवात्सर्वशाखानारम्भप्रसङ्गादनुभवविरोधाच, नापि वृत्तिरूपं, वृत्तेः सत्यत्वे तत्कारणान्ताकरणाविद्यादेरपि सच्चस्यावश्यकत्वेन तया तन्निवृत्तेरशक्यतया सर्ववेदान्तार्थविप्लवापत्तेः, मिथ्यात्वे च कथमज्ञाननिवर्तकता । न हि मिथ्याज्ञानमज्ञाननिवर्तकं दृष्टम्, स्वमज्ञानस्यापि तत्त्वप्रसङ्गात् । न च "सत्यस्यैव चैतन्यस्य प्रमाणजन्यापरोक्षान्तःकरणवृत्त्यभिव्यक्तस्याज्ञाननिवर्तकत्वाद्वृत्तेश्च कारणतावच्छेदकत्वेन दण्डत्वादिवदन्यथासिद्धत्वेन कारणत्वानगीकारात् , अवच्छेदकस्य कल्पितत्वेऽप्यवच्छेद्यस्य वास्तवत्वं न विहन्यते, यद्रजतत्वेन भातं तच्छुक्तिद्रव्यमितिवत्, तार्किकैरप्याकाशस्य शब्दग्राहकत्वे कर्णशष्कुलीसम्बन्धस्य कल्पितस्यैवाबच्छेदकत्वाङ्गीकारात, संयोगमात्रस्य निरवयवे नभसि सर्वात्मना सत्वेनातिप्रसञ्जकत्वात् । मीमांसकैश्च कल्पितइस्वत्वदीर्घत्वादिसंसर्गावच्छिन्नानामेव वर्णानां यथार्थशानजनकत्वोपगमाद्ध्वनिधर्माणां ध्वनिगतत्वेनैव भानात , वर्णानां च विभूनामानुपूर्वीविशेषाज्ञानादतिप्रसङ्गात, वर्णनिष्ठत्वेन इस्वत्वादिकल्पनस्य तेषामावश्यकत्वात् , तद्वदस्माकमपि कल्पितावच्छेदकोपगमे को दोष" इति मधुसूदनतपस्वि. नोऽपि वचनं विचारसह, मिथ्याग्दृष्टान्तस्य सम्यग्दृशां ग्रहणानौचित्यात् , नैयायिकमीमांसकोक्तस्थलेऽपि अनन्तधर्मात्मकैकवस्तुस्वीकारे कल्पितावच्छेदककृतविडम्बनाया अप्रसरात,विस्तरेणोपपादितं चैतत्सम्मतिवृत्तौ । न चोक्तरीत्या वृत्तेरवच्छेदकत्वमपि युक्तं,प्रतियोगितयाऽज्ञाननिवृत्तौ सामानाधिकरण्येन समानविशेष्यकसमानप्रकारकवृत्तरेव त्वन्मते हेतुत्वस्य युक्तत्वात्। अत एव
RRIGIBAGES
केवलज्ञाननिरूपणे बह्मज्ञानलक्ष
णकेवल| शानस्याविद्यानिवृत्तिलक्षणमोक्षहेतुत्वमितिवेदा.
न्तिमतस्य खण्डन,तत्र| मधुसूदनोतरपाकरण
ञ्च ।
Fat PW
And Penal Use Only