________________
S
a
kanda
Achatya Sas
s
Gym
मशान
४
प्रकरणम् ॥ ॥१०१॥
CLICADAINIK
पश्यस्तदुहिधीर्षया नैरात्म्यक्षणिकत्वादिकमवगच्छन्नपि तेषामुपकार्यसत्त्वानां निष्क्लेशक्षणोत्पादनाय प्रयतते, ततो जातसकलजगत्साक्षात्कारः समुत्पत्रकेवलज्ञानः पूर्वाहितकृपाविशेषसंस्कारात् कृतार्थोऽपि देशनायां प्रवर्तते, अधिगततत्तात्पर्याश्च स्वसन्ततिगतविशिष्टक्षणोत्पत्तये मुमुक्षवः प्रवर्तन्ते,"इति न किमप्यनुपपन्नमित्याहुः तदखिलमज्ञानविलसितम् ।आत्माभावे वन्धमोक्षाघेकाधिकरणत्वायोगात्। न च सन्तानापेक्षया समाधिः,तस्यापि क्षणानतिरेके एकत्वासिद्धेः, एकत्वे चद्रव्यस्यैव नामान्तरत्वात्, सजातीयक्षणप्रबन्धरूपे सन्ताने च न कारकव्यापार इति समीचीनं मुमुक्षुप्रवृत्त्युपपादनम् । अथाक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनोपादानत्वमिति सजातीयक्षणप्रबन्धोपपत्तिः, बुद्धदेशितमार्गे तु तत्प्रयोजकत्वज्ञानादेव प्रवृत्तिरिति चेत्,न, एकान्तवादेऽनेन रूपेण निमित्तत्वमनेन रूपेण चौपादानत्वमिति विभागस्यैव दुर्वचत्वात् । अक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनैवोपादानत्वे आद्याक्लिष्टक्षणस्यानुत्पत्तिप्रसङ्गादन्त्यक्लिष्टक्षणसाधारणस्य हेतुतावच्छेदकस्य कल्पने च क्लिष्टक्षणजन्यतावच्छेदकेन साकाजन्यजनकक्षणप्रबन्धकोटावेकैकक्षणप्रवेशपरित्यागयोर्विनिगमकाभावाच । एतेन 'इतरव्यावृत्त्या शक्तिविशेषेण वा जनकत्वम् इत्यप्यपास्तम् । न चैतदनन्तरमहमुत्पन्नमेतस्य चाहं जनकमित्यवगच्छति क्षणरूपं ज्ञानमिति न भवन्मते कार्यकारणभावा, नापि तदवगमः, ततो याचितकमण्डनमेतदेकसन्ततिपतितत्वादेकाधिकरणं बन्धमोक्षादिकमिति । एतेन उपादेयोपादानक्षणानां परस्परं वास्यवासकभावादुत्तरोत्तरविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव' इत्यप्यपास्तम्, युगपद्धाविनामेव तिलकुसुमादीनां वास्यवासकभावदर्शनात् । उक्तश्च-"वास्यचासकयोश्चैव-मसाहित्यान्न वासना ।। पूर्वक्षणैरनुत्पन्नो, वास्यते नोत्तरक्षणः ॥१॥इति"। कल्पितशुद्धक्षणैकसन्तानार्थितयैव मोक्षो. पाये सौगतानां प्रवृत्तिः, तदर्थैव च सुगतदेशनेत्यभ्युपगमे च तेषां मिथ्यादृष्टित्वं,तत्कल्पितमोक्षस्य च मिथ्यात्वं स्फुटमेव, अधिक
ROGROCERes
केवलज्ञान
निरूपणे निरुक्तबौद्धमतस्य खण्ड. नं बौद्धमते आत्माऽभावे बन्धमोक्ष
काधिकरण्यासम्भवः कार्यकारणभावाद्यसम्भवश्च।
Fat PW
And Penal Use Only