Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 223
________________ Shri Mahavir Jain Aradhana Kendra बीज्ञान बिन्दु प्रकरणम् ॥ ॥ १०३ ॥ www.katuatirth.org प्रपञ्चस्य तत्वज्ञानेन बाधितस्यापि प्रारब्धवशेन बाधितानुवृत्त्या प्रतिभासः तृतीयस्याः शक्तेः कार्यम् तेन बाधितानुवृत्या प्रतिमासानुकूला तृतीया शक्तिः प्रातिभासिक सच्चसम्पादनपटीयसी शक्तिरुच्यते सा चान्तिमतस्वबोधेन निवर्तत इत्येवमदोष इति चेत्, न, बाधितं हि त्वन्मते नाशितं, तस्यानुवृत्तिरिति वदतो व्याघातात् । बाघितत्वेन बाधितत्वावच्छिन्नसत्तया वा प्रतिभासस्तच्चप्रारब्धकार्यमिति चेत्, तृतीया शक्तिर्व्यर्था, यावद्विशेषाणां बाधितत्वे तेषां तथाप्रतिभासस्य सार्वज्ञाभ्युपगमं विनानुपपत्तेश्थ, द्वितीयशक्तिविशिष्टाज्ञाननाशात् सचितकर्म तत्कार्य च नश्यति, ततस्तृतीयशक्त्या प्रारब्धकार्ये दग्धरज्जुस्थानीया बाधितावस्था जन्यते, इयमेव बाधितानुवृतिरिति चेत्, न, एवं सति घटपटादौ तत्त्वज्ञस्य न बाधितसस्त्रधीः, न वा व्यावहारिकपारमार्थिकसच्वधीरिति तत्र किञ्चिदन्यदेव कल्पनीयं स्यात्, तथा च लोकशास्त्र विरोध इति गुष्ठक्तं हरिभद्राचार्यै: - ( षोडशक १६) "अग्निजलभूमयो यत्, परितापकरा भवेऽनुभवसिद्धाः || रागादयश्च रौद्रा, असत्प्रवृत्यास्पदं लोके ॥८॥ परिकल्पिता यदि ततो, न सन्ति तस्वेन कथममी स्युरिति ॥ परिकल्पिते च तत्त्वे, भवभव विगमौ कथं युक्तौ ।। ९ ।। इत्यादि । तस्माद्वृत्तेर्व्यावहारिकसचयापि न निस्तारः । प्रपचे परमार्थदृष्टथेव व्यवहारदृष्ट्यापि सतान्तरानवगाहनादिति स्मर्तव्यम् । किं च "सप्रकारं निष्प्रकारं वा ब्रह्मज्ञानमज्ञाननिवर्तकमिति वक्तव्यं, आये निष्प्रकारे ब्रह्मणि सप्रकारकज्ञानस्यायथार्थत्वामाज्ञाननिवर्तकता, तस्य यथार्थत्वे वा नाद्वैतसिद्धिः, द्वितीयपक्षस्तु निष्प्रकारकज्ञानस्य कुत्राप्यज्ञान निवर्तकत्वादर्शनादेवानुद्भावनाई ।। " किं च निष्प्रकारकज्ञानस्य कुत्राप्यज्ञाननिवर्तकत्वं न दृष्टमिति शुद्धब्रह्मज्ञानमात्रात्कथमज्ञाननिवृत्तिः १ न च सामान्यधर्ममात्राप्रकारक समान विषयप्रमात्वमज्ञाननिवृत्तौ प्रयोजकं, अत्र प्रमेयमिति ज्ञानेऽतिव्याप्तिवारणाय सामान्येति, प्रमेयो घट इत्यादावव्याप्तिवारणाय मात्रेति, तेनेदं विशेषप्रकारे निष्प्रकारे For Print And Personal Use Only Acharya Shel Kailassagarsun Gyanmandir केवलज्ञाननिरूपणे वेदान्तिमत्र खण्डने तस्व ज्ञानानन्तरं मायानुवृत्तेः खण्डने तत्र लोकशास्त्र विरोधे ह रिभद्रसूरि संवादो ब ह्मज्ञानस्या ज्ञाननिवर्त कत्वासम्भवश्व ॥ ॥ १०३ ॥

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254