Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 187
________________ Shri Mahavir Jain Aradhana Kendra सविवरणं श्रीज्ञाना - प्रकरणम् ॥ ॥ ८५ ॥ www.ketafirth.org प्रकृतत्वात्, यथा न्यायनये " बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् " इति सांख्याभिमतस्य शब्दभेदादर्थभेदस्य निरासाय ज्ञानपर्यायाभिधानम्, एकरूपेणैकार्थबोधकशब्दद्वयं च पर्यायः, अन्यथा पृथिवीघटशब्दयोरपि पर्यायत्वव्यवहारप्रसङ्गादिति, तथा च कथमीहापोहादीनां मतिज्ञानपर्यायत्वमिति चेत्, सत्यं - अवग्रहणादियोगार्थ भेदेऽप्यवग्रहादिशब्दानां मतिसामान्यप्रवृत्तिकत्वेन पर्यायत्वात् योगार्थभेदस्यापि पर्यायत्वप्रतिपन्थित्वे घटकलशादिपदानामपि तवं न स्यात्, न चैवमवग्रहेहादिसङ्करप्रसङ्गः १, अवग्रहादीनां सामान्या दिग्राहित्वेऽप्यव्यक्तव्यक्ततत्तदवभासविशेषेण विशेषात्, नहि यथाभूतमवग्रहे सामान्य मात्रार्थस्यावग्रहणं तथाभूतमेवेहायां, किन्तु विशिष्टं विशिष्टतरं विशिष्टतमं चाऽपायधारणयो:, यथाभूता चेहायां मतिचेष्टा ततो विशिष्टतरा विशिष्टतमा चापायधारणयोः, अविशिष्टतरा चाऽवग्रहे, अर्थावगमनमप्यपायाद्विशिष्टं धारणायां, अविशिष्टमविशिष्टतरं चेहावग्रयोः, अर्थधारणमप्यवग्रहेहापायेभ्यः सर्वप्रकृष्टं धारणायामिति । तदिदमाह - Xxx [इयानेवोपलब्धोयं ग्रन्थः,अग्रेतनः समाप्तिं यावत्प्रभूततमो ग्रन्थभागः खण्डित इति तद्बुभुत्सूनां किश्चिद्दिक्सूचकप्रायं प्रदर्श्यते ] [सव्वं वाभिणिबोहिय- मिहोग्गहाइवयणेण संगहियं ॥ केवलमत्थविसेसं, पर भिन्ना उग्गहाईया ।। ३९९ ।। [सर्व वाऽभिनिबोधिकमिहावग्रहादिवचनेन सङ्गृहीतम् ॥ केवलमर्थविशेषं प्रति भिन्ना अवग्रहादयः ] अथावग्रदेहापायधारणानामविशिष्टविशिष्टविशिष्टतरविशिष्टतमार्थप्रतिपादकत्वेन कथं ततच्छब्देनाभिनिबोधिकं सगृह्यत इति चेत्, अत्राह - अविशिष्टयौगिकार्थाश्रयणेन सर्वेषामप्येकवाचकत्वेनाभिनिबोधिकत्वेऽविरोधात् ! इदमुक्तं भवति, अवग्रहणमवग्रह इतिव्युत्पत्तिमाश्रित्य सर्वमप्याभिनिबोधिकमवग्रहः, यथाहि, कमप्यर्थमवग्रहोsवगृह्णाति, तथेहापि कमप्यर्थमवगृह्णात्येव, एवमपायधारणे अपि कमप्यर्थमवगृहीत इति सर्वमप्याभिनिबोधिकं For Print And Personal Use Only Acharya Shel Kailassagarsun Gyanmandir ( योजितः पाठ: ) पोहा दोनां मति ज्ञानपर्याथ त्वस्यावग्र हणादितारतम्यस्य च व्यवस्थापनम् । सर्व स्याभिनिबोधिकस्यावग्रहादिश ब्देन सय होपपादन वा ॥ ८५ ॥

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254