Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सविवरण श्रीज्ञाना
र्णय
प्रकरणम् । ॥ ८६ ॥
www.ketafirth.org
आदेशेन सर्वं द्रव्यादि चतुर्विधं जानाति ॥] ननु द्रव्यादिचतुर्विधमामिनिबोधिकज्ञानी जानातीत्युक्तं तत्केन स्वरूपेण, न च किंज्ञानस्य ज्ञातव्यप्रकारभेदोऽस्तीति स्वरूपं पृच्छसीति वाच्यं ज्ञातव्यप्रकारस्य द्वैविध्यात्, तथाहि, ओघादेशो विभागादेशश्च सामान्यप्रकारो विशेषप्रकारचेति तदर्थः, अतः केन स्वरूपेणेति प्रश्नः, अत्रोत्तरं, ओघादेशेन सामान्यप्रकारेण, तथाहि, द्रव्यसामान्येन असंख्येयप्रदेशात्मको लोकव्यापकोऽमूर्तः प्राणिनां पुद्गलानां च गत्युपष्टम्भनहेतुर्धर्मास्तिकाय इत्यादिना सामान्यप्रकारेण कियत्पविशिष्टानि षडपि धर्मास्तिकायादीनि सर्वद्रव्याणि सामान्येनाभिनिवोधिकज्ञानी जानातीति तच्चम् | विभागादेशेन विशेषप्रकारेण पुनः सर्वैः पर्यायैः केवलिदृष्टैरवच्छिन्नानि सर्वद्रव्याणि न जानाति केवलज्ञानावसेयत्वात्सर्व पर्यायाणामिति, एवं क्षेत्रमपि सर्व सामान्यतः कियत्पर्यायावच्छिन्नं सामान्यादेशेन जानाति न विशेषादेशेन सर्वपर्यायविशिष्टं, कालमपि सर्वाद्धारूपं अतीतानागतवर्तमानभेदतस्त्रिविधं वेत्यादिरूपेण, भावतस्तु सामान्येन सर्वभावानामनन्तभागं, औदयिकक्षायिकौ पशमिकक्षायोपशमिकपारिणामिकान्वा पञ्चभावान्सामान्यादेशेन जानाति न परतः । एतावत एवाभिनिबोधिकविषयत्वात् ॥ इह क्षेत्रकालयोः सामान्येन द्रव्यान्तर्गतत्वेऽपि भेदेन रूढत्वात्पृथगुपाद कृत सूत्रार्थत्वे वाऽऽदेशस्य सूत्रादेशतः श्रुतोपलब्धेष्वर्थेषु सर्वद्रव्यादिविषयं मतिज्ञानं प्रवर्तते । न च श्रुतोपलब्धेष्वर्थेषु ग्राहकत्वेन प्रवृत्तस्य ज्ञानस्य श्रुतज्ञानत्वमेव न्याय्यं न मतिज्ञानत्वमिति साम्प्रतम्, इह पूर्वं श्रुतपरिकर्मितमतेरपि साम्प्रतमाभिनिबोधिकज्ञानस्य श्रुतोपयोगमृते तदुपलब्धेष्वर्थेषु तद्वासनामात्रेणैव प्रवृत्तत्वात्, यदवादि, “पुव्वि सुयपरिकम्मिय - मइस्स जं संपयं सुयाईयं" इत्यादि, सर्वमप्येतद्भाष्यकारोऽप्याह “आएसोति पगारो, ओहादेसेण सव्वदव्वाई || धम्मत्थिकाइयाई, जाणइ न उ सब्बभेएणं ॥ ४०३ || खेतं लोगालोगं, कालं सव्वद्धमव तिविहं ति ।। पंचोदइयाईए, भावे जं नेयमेवइयं
For Print And Personal Use Only
Acharya Shri Kalassagarsun Gyanmandir
(योजित:
पाठः)
द्रव्यादि
चतुर्विधमा
भिनिबोधि
कज्ञानी
सामान्यप्र
कारेण सर्व
जानाति न विशेषप्रका
रेण सर्वमि ति प्रपञ्चि तम् । ॥ ८६ ॥

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254