SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सविवरण श्रीज्ञाना र्णय प्रकरणम् । ॥ ८६ ॥ www.ketafirth.org आदेशेन सर्वं द्रव्यादि चतुर्विधं जानाति ॥] ननु द्रव्यादिचतुर्विधमामिनिबोधिकज्ञानी जानातीत्युक्तं तत्केन स्वरूपेण, न च किंज्ञानस्य ज्ञातव्यप्रकारभेदोऽस्तीति स्वरूपं पृच्छसीति वाच्यं ज्ञातव्यप्रकारस्य द्वैविध्यात्, तथाहि, ओघादेशो विभागादेशश्च सामान्यप्रकारो विशेषप्रकारचेति तदर्थः, अतः केन स्वरूपेणेति प्रश्नः, अत्रोत्तरं, ओघादेशेन सामान्यप्रकारेण, तथाहि, द्रव्यसामान्येन असंख्येयप्रदेशात्मको लोकव्यापकोऽमूर्तः प्राणिनां पुद्गलानां च गत्युपष्टम्भनहेतुर्धर्मास्तिकाय इत्यादिना सामान्यप्रकारेण कियत्पविशिष्टानि षडपि धर्मास्तिकायादीनि सर्वद्रव्याणि सामान्येनाभिनिवोधिकज्ञानी जानातीति तच्चम् | विभागादेशेन विशेषप्रकारेण पुनः सर्वैः पर्यायैः केवलिदृष्टैरवच्छिन्नानि सर्वद्रव्याणि न जानाति केवलज्ञानावसेयत्वात्सर्व पर्यायाणामिति, एवं क्षेत्रमपि सर्व सामान्यतः कियत्पर्यायावच्छिन्नं सामान्यादेशेन जानाति न विशेषादेशेन सर्वपर्यायविशिष्टं, कालमपि सर्वाद्धारूपं अतीतानागतवर्तमानभेदतस्त्रिविधं वेत्यादिरूपेण, भावतस्तु सामान्येन सर्वभावानामनन्तभागं, औदयिकक्षायिकौ पशमिकक्षायोपशमिकपारिणामिकान्वा पञ्चभावान्सामान्यादेशेन जानाति न परतः । एतावत एवाभिनिबोधिकविषयत्वात् ॥ इह क्षेत्रकालयोः सामान्येन द्रव्यान्तर्गतत्वेऽपि भेदेन रूढत्वात्पृथगुपाद कृत सूत्रार्थत्वे वाऽऽदेशस्य सूत्रादेशतः श्रुतोपलब्धेष्वर्थेषु सर्वद्रव्यादिविषयं मतिज्ञानं प्रवर्तते । न च श्रुतोपलब्धेष्वर्थेषु ग्राहकत्वेन प्रवृत्तस्य ज्ञानस्य श्रुतज्ञानत्वमेव न्याय्यं न मतिज्ञानत्वमिति साम्प्रतम्, इह पूर्वं श्रुतपरिकर्मितमतेरपि साम्प्रतमाभिनिबोधिकज्ञानस्य श्रुतोपयोगमृते तदुपलब्धेष्वर्थेषु तद्वासनामात्रेणैव प्रवृत्तत्वात्, यदवादि, “पुव्वि सुयपरिकम्मिय - मइस्स जं संपयं सुयाईयं" इत्यादि, सर्वमप्येतद्भाष्यकारोऽप्याह “आएसोति पगारो, ओहादेसेण सव्वदव्वाई || धम्मत्थिकाइयाई, जाणइ न उ सब्बभेएणं ॥ ४०३ || खेतं लोगालोगं, कालं सव्वद्धमव तिविहं ति ।। पंचोदइयाईए, भावे जं नेयमेवइयं For Print And Personal Use Only Acharya Shri Kalassagarsun Gyanmandir (योजित: पाठः) द्रव्यादि चतुर्विधमा भिनिबोधि कज्ञानी सामान्यप्र कारेण सर्व जानाति न विशेषप्रका रेण सर्वमि ति प्रपञ्चि तम् । ॥ ८६ ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy