Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 217
________________ Shri Mahavir Jain Aradhana Kendra भीज्ञान बिन्दु प्रकरणम् ॥ ॥ १०० ॥ www.ketafirth.org क्षयोऽपि भावनातारतम्याचा रतम्येनोपजायमानस्तदत्यन्तप्रकर्षादत्यन्तप्रकर्षमनुभवतीति किमनुपपन्नम्। तदाहाकलङ्कोऽपि - "दोपावरणयोर्हानि-र्निःशेषास्त्यतिशायनात् ॥ क्वचिद्यथा स्वहेतुम्यो, बहिरन्तर्मलक्षय इति ॥ १॥" न च निम्बाद्यौषधोपयोगाचरतमभावापचीयमानस्यापि श्लेष्मणो नात्यन्तिकक्षय इति व्यभिचारः, तत्र निम्बाद्यौषधोपयोगोत्कर्षनिष्ठाया एवापादवितुमशकयत्वात्, तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदैवासेवनात्, अन्यथौषधोपयोगाधारस्यैव विनाशप्रसङ्गात्, चिकित्साशास्त्रं बुद्रिक्त धातुदोषसाम्यमुद्दिश्य प्रवर्तते, न तु तस्य निर्मूलनाशं, अन्यतरदोषात्यन्तक्षयस्य मरणाऽविनाभावित्वादिति द्रष्टव्यम् । रागाद्यावर णापाये सर्वज्ञज्ञानं वैशद्यभाग्भवतीत्यत्र च न विवादो रजोनीहाराद्यावरणापाये वृक्षादिज्ञाने तथा दर्शनात् । न च रागादीनां कथमावरणत्वं कुव्यादीनामेव पौगलिकानां तथात्वदर्शनादिति वाच्यम्, कुड्यादीनामपि प्रातिभादावनावारकत्वात्, ज्ञानविशेषे तेषामावरत्वचातीन्द्रियज्ञाने रागादीनामपि तथात्वमन्वयव्यतिरेकाभ्यामेव सिद्धम् । रागाद्यपचये योगिनामतीन्द्रियानुभवसम्भवात्पौनलिकत्वमपि द्रव्यकर्मानुगमेन तेषां नासिद्धम् । स्वविषयग्रहणक्षमस्य ज्ञानस्य तदग्राहकताया विशिष्टद्रव्यसम्बन्धपूर्वकत्वनियमात्पी तहृत्पूरपुरुषज्ञाने तथादर्शनादिति ध्येयम् । बार्हस्पत्यास्तु - "रागादयो न लोभादिकर्मोदय निबन्धनाः, किं तु ककादिप्रकृतिहेतुका ॥ तथाहि, कफहेतुको रागः, पिचहेतुको द्वेषः, वातहेतुकच मोहः । कफादयश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् ततो न सार्वज्ञमूलवीतरागत्वसम्भव” इत्याहुः । तदयुक्तम्, रागादीनां व्यभिचारेण कफादिहेतुकत्वायोगात् दृश्यते हि वातप्रकृतेरपि रागद्वेषौ, कफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृतेरपि मोहरागाविति । एकैकस्याः प्रकृतेः पृथक सर्वदोषजननशक्त्युपगने च सर्वेषां समरागादिमच्चप्रसङ्गात् । न च स्वस्वयोग्यक्रमिकरागादिदोषजनक कफाद्यवान्तरपरिणतिविशेषस्य प्रतिप्राणि कल्पनान्नायं दोष For Print And Personal Use Only Acharya Shel Kailassagarsun Gyanmandir केवलज्ञाननिरूपणे आवरणास्यदुरितक्षया त्यन्तिकत्वे समन्तभद्रं संवादः, रागादीनां तत्रावरणत्वं तेषां - फादिहेतुक स्वस्थ प्रतिक्षेपः ॥ ॥ १०० ॥

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254