________________
Shri Mahavir Jain Aradhana Kendra
भीज्ञान
बिन्दु
प्रकरणम् ॥ ॥ १०० ॥
www.ketafirth.org
क्षयोऽपि भावनातारतम्याचा रतम्येनोपजायमानस्तदत्यन्तप्रकर्षादत्यन्तप्रकर्षमनुभवतीति किमनुपपन्नम्। तदाहाकलङ्कोऽपि - "दोपावरणयोर्हानि-र्निःशेषास्त्यतिशायनात् ॥ क्वचिद्यथा स्वहेतुम्यो, बहिरन्तर्मलक्षय इति ॥ १॥" न च निम्बाद्यौषधोपयोगाचरतमभावापचीयमानस्यापि श्लेष्मणो नात्यन्तिकक्षय इति व्यभिचारः, तत्र निम्बाद्यौषधोपयोगोत्कर्षनिष्ठाया एवापादवितुमशकयत्वात्, तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदैवासेवनात्, अन्यथौषधोपयोगाधारस्यैव विनाशप्रसङ्गात्, चिकित्साशास्त्रं बुद्रिक्त धातुदोषसाम्यमुद्दिश्य प्रवर्तते, न तु तस्य निर्मूलनाशं, अन्यतरदोषात्यन्तक्षयस्य मरणाऽविनाभावित्वादिति द्रष्टव्यम् । रागाद्यावर णापाये सर्वज्ञज्ञानं वैशद्यभाग्भवतीत्यत्र च न विवादो रजोनीहाराद्यावरणापाये वृक्षादिज्ञाने तथा दर्शनात् । न च रागादीनां कथमावरणत्वं कुव्यादीनामेव पौगलिकानां तथात्वदर्शनादिति वाच्यम्, कुड्यादीनामपि प्रातिभादावनावारकत्वात्, ज्ञानविशेषे तेषामावरत्वचातीन्द्रियज्ञाने रागादीनामपि तथात्वमन्वयव्यतिरेकाभ्यामेव सिद्धम् । रागाद्यपचये योगिनामतीन्द्रियानुभवसम्भवात्पौनलिकत्वमपि द्रव्यकर्मानुगमेन तेषां नासिद्धम् । स्वविषयग्रहणक्षमस्य ज्ञानस्य तदग्राहकताया विशिष्टद्रव्यसम्बन्धपूर्वकत्वनियमात्पी तहृत्पूरपुरुषज्ञाने तथादर्शनादिति ध्येयम् । बार्हस्पत्यास्तु - "रागादयो न लोभादिकर्मोदय निबन्धनाः, किं तु ककादिप्रकृतिहेतुका ॥ तथाहि, कफहेतुको रागः, पिचहेतुको द्वेषः, वातहेतुकच मोहः । कफादयश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् ततो न सार्वज्ञमूलवीतरागत्वसम्भव” इत्याहुः । तदयुक्तम्, रागादीनां व्यभिचारेण कफादिहेतुकत्वायोगात् दृश्यते हि वातप्रकृतेरपि रागद्वेषौ, कफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृतेरपि मोहरागाविति । एकैकस्याः प्रकृतेः पृथक सर्वदोषजननशक्त्युपगने च सर्वेषां समरागादिमच्चप्रसङ्गात् । न च स्वस्वयोग्यक्रमिकरागादिदोषजनक कफाद्यवान्तरपरिणतिविशेषस्य प्रतिप्राणि कल्पनान्नायं दोष
For Print And Personal Use Only
Acharya Shel Kailassagarsun Gyanmandir
केवलज्ञाननिरूपणे
आवरणास्यदुरितक्षया
त्यन्तिकत्वे
समन्तभद्रं
संवादः,
रागादीनां
तत्रावरणत्वं तेषां - फादिहेतुक स्वस्थ प्रतिक्षेपः ॥
॥ १०० ॥