Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 212
________________ S a kanda Acharya ShatkadassigaisanGyanmantire XLADASHISROADS वादी सिद्धसेनः (निश्चयद्वात्रिंशिका) वैयर्थ्यातिप्रसङ्गाभ्यां,न मत्यभ्यधिकं श्रुतम्॥१२॥इति।।" इत्याहुः।।इतिश्रुतज्ञानम्।। "अवधिज्ञानत्वं रूपिसमव्याप्यविषयताशालिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वम्।।" रूपिसमव्याप्यविषयताशालिज्ञानं परमावधिज्ञानं "रूवगयं लहइ सव्वं" (गा.६८५) इतिवचनात् ,तवृत्तिनित्वव्याप्याजातिरवधित्वमवधिज्ञानमात्र इति लक्षणसमन्वयः समव्याप्यत्वमपहाय व्यापकत्वमात्रदाने जगद्व्यापकविषयताकस्य केवलस्य रूपिव्यापकविषयताकत्वनियमात् तद्वृत्तिकेवलत्वमादाय केवलज्ञानेऽतिव्याप्तिः, समव्याप्यत्वदाने त्वरूपिणि व्यभिचारात्केवलज्ञानविषयताया रूप्यव्याप्यत्वात्तन्निवृत्तिः। न च परमावधिज्ञानेऽप्यलोके लोकप्रमाणासङ्ख्यारूप्याकाशखण्डविषयतोपदर्शनादसम्भवः । यदि तावत्सु खण्डेषु रूपिद्रव्यं स्यात्तदा पश्येदिति प्रसङ्गापादन एव तदुपदर्शनतात्पर्यात् । न च तदंशे विषयबाधेन सूत्राप्रामाण्यं, स्वरूपबाधेऽपि शक्तिविशेषज्ञापनेन फलावाधात् । एतेनासद्भावस्थापना व्याख्याता बहिर्विषयताप्रसञ्जिका तारतम्येन शक्तिवृद्धिश्च लोकमध्य एव सूक्ष्मम्क्ष्मतरस्कन्धावगाहनफलवतीति न प्रसङ्गापादनवैयर्थ्यम् । यद्भाष्यं-"वळतो पुण बाहि, लोगत्थं चेव पासई दब्बं ॥ सुहुमयरं सुहुमयरं, परमोही जाव परमाणुं ॥ ६०६ ॥” इति । अलोके लोकप्रमाणासङ्ख्येयखण्डविषयतावधेरिति वचने विषयतापदं तर्कितरूप्यधिकरणताप्रसञ्जिततावदधिकरणकरूपिविषयतापरमिति न स्वरूपबाधोपीति तत्त्वम् । जातौ ज्ञानत्वव्याप्यत्वविशेषणं ज्ञानत्वमादाय मत्यादावतिव्याप्तिवारणार्थम् । न च संयमप्रत्ययावधिज्ञानमनःपर्यायज्ञानसाधारणजातिविशेषमादाय मनःपर्यायज्ञानेऽतिव्याप्तिः,अवधित्वेन साङ्कर्येण तादृशजात्यसिद्धेः । न च 'पुद्गला रूपिण' इति शाब्दबोधे रूपिसमव्याप्यविषयताके तिव्याप्तिा, विषयतापदेन स्पष्टविशेषाकारग्रहणादिति सङ्केपः ॥ इत्यवधिज्ञानप्ररूपणम् ।। अवविज्ञान| निरूपण तत्रावधिज्ञानलक्षणे विरोषणानां व्यावृत्युपदर्शनम् ॥ ABPSPEECORRUAGE Fat PW And Penal Use Only

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254