________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
XLADASHISROADS
वादी सिद्धसेनः (निश्चयद्वात्रिंशिका) वैयर्थ्यातिप्रसङ्गाभ्यां,न मत्यभ्यधिकं श्रुतम्॥१२॥इति।।" इत्याहुः।।इतिश्रुतज्ञानम्।।
"अवधिज्ञानत्वं रूपिसमव्याप्यविषयताशालिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वम्।।" रूपिसमव्याप्यविषयताशालिज्ञानं परमावधिज्ञानं "रूवगयं लहइ सव्वं" (गा.६८५) इतिवचनात् ,तवृत्तिनित्वव्याप्याजातिरवधित्वमवधिज्ञानमात्र इति लक्षणसमन्वयः समव्याप्यत्वमपहाय व्यापकत्वमात्रदाने जगद्व्यापकविषयताकस्य केवलस्य रूपिव्यापकविषयताकत्वनियमात् तद्वृत्तिकेवलत्वमादाय केवलज्ञानेऽतिव्याप्तिः, समव्याप्यत्वदाने त्वरूपिणि व्यभिचारात्केवलज्ञानविषयताया रूप्यव्याप्यत्वात्तन्निवृत्तिः। न च परमावधिज्ञानेऽप्यलोके लोकप्रमाणासङ्ख्यारूप्याकाशखण्डविषयतोपदर्शनादसम्भवः । यदि तावत्सु खण्डेषु रूपिद्रव्यं स्यात्तदा पश्येदिति प्रसङ्गापादन एव तदुपदर्शनतात्पर्यात् । न च तदंशे विषयबाधेन सूत्राप्रामाण्यं, स्वरूपबाधेऽपि शक्तिविशेषज्ञापनेन फलावाधात् । एतेनासद्भावस्थापना व्याख्याता बहिर्विषयताप्रसञ्जिका तारतम्येन शक्तिवृद्धिश्च लोकमध्य एव सूक्ष्मम्क्ष्मतरस्कन्धावगाहनफलवतीति न प्रसङ्गापादनवैयर्थ्यम् । यद्भाष्यं-"वळतो पुण बाहि, लोगत्थं चेव पासई दब्बं ॥ सुहुमयरं सुहुमयरं, परमोही जाव परमाणुं ॥ ६०६ ॥” इति । अलोके लोकप्रमाणासङ्ख्येयखण्डविषयतावधेरिति वचने विषयतापदं तर्कितरूप्यधिकरणताप्रसञ्जिततावदधिकरणकरूपिविषयतापरमिति न स्वरूपबाधोपीति तत्त्वम् । जातौ ज्ञानत्वव्याप्यत्वविशेषणं ज्ञानत्वमादाय मत्यादावतिव्याप्तिवारणार्थम् । न च संयमप्रत्ययावधिज्ञानमनःपर्यायज्ञानसाधारणजातिविशेषमादाय मनःपर्यायज्ञानेऽतिव्याप्तिः,अवधित्वेन साङ्कर्येण तादृशजात्यसिद्धेः । न च 'पुद्गला रूपिण' इति शाब्दबोधे रूपिसमव्याप्यविषयताके तिव्याप्तिा, विषयतापदेन स्पष्टविशेषाकारग्रहणादिति सङ्केपः ॥ इत्यवधिज्ञानप्ररूपणम् ।।
अवविज्ञान| निरूपण
तत्रावधिज्ञानलक्षणे विरोषणानां व्यावृत्युपदर्शनम् ॥
ABPSPEECORRUAGE
Fat PW
And Penal Use Only