________________
Shri Mahavir Jain Aradhana Kendra
भीज्ञान
बिन्दु
अकरणम् ॥ ॥ ९७ ॥
www.khatirth.org
म्भावकल्पनं तु स्ववासनामात्रविजृम्भितं, शब्दसंसृष्टाया मतेरेव श्रुतत्वपरिभाषणं तु न पृथगुपयोगव्यापकमिति शाब्दज्ञानमेत्र श्रुतज्ञानं न त्वपरोक्ष मिन्द्रियजन्यमपीत्याहुः। नव्यास्तु "श्रुतोपयोगो मत्युपयोगान्न पृथक्, मत्युपयोगेनैव तत्कार्योपपत्तौ तत्पार्थक्य कल्पनाया व्यर्थत्वात् । अत एव शब्दजन्यसामान्यज्ञानोत्तरं विशेषजिज्ञासायां तन्मूलकमत्यषायांशप्रवृत्तौ न पृथगवग्रहकल्पनागौरवं शाब्दसामान्यज्ञानस्यैव तत्रावग्रहत्वात् । न चाशाब्दे शाब्दस्य तत्सामय्या या प्रतिबन्धकत्वधौव्यान्नेयं कल्पना युक्तेति वाच्यम्, अशाब्दत्वस्य प्रतिबध्यतावच्छेदकत्वे प्रतियोगिकोटौ शब्दमूलमतिज्ञानस्यापि प्रवेशात्, अन्यथा श्रुताभ्यन्तरीभूतमतिज्ञानोच्छेदप्रसङ्गात् । किश्च शाब्दज्ञानरूपश्रुतस्यावग्रहादिक्रमवतो मतिज्ञानाद्भिन्नत्वापगमेऽनुमानस्मृतितर्कप्रत्यभिज्ञानादीनामपि तथात्वं स्यादित्यतिप्रसङ्गः, सांव्यवहारिकप्रत्यक्षत्वाभावस्यापि तेषु तुल्यत्वात् । यदि चावग्रहादिभेदाः सांव्यवहारिक प्रत्यक्षरूपस्यैव मतिज्ञानस्य सूत्रे प्रोक्ता अनुमानादिकं तु परोक्षमतिज्ञानमर्थतः सिद्धमितीप्यते, तर्हि श्रुतशब्दव्यपदेश्यं शाब्दज्ञानमपि परोक्षमतिज्ञानमेवाङ्गीक्रियतां किमर्धजरतीयन्यायाश्रयणेन । मत्वा जानामि श्रुत्वा जानामीत्यनुभव एवानयोर्भेदोपपादक इति चेत्, न, अनुमाय जानामि स्मृत्वा जानामीत्यनुभवेनानुमानस्मृत्यादीनामपि भेदापतेः । अनुमितित्वादिकं मतित्वव्याप्यमेवेति यदीष्यते, शाब्दत्वमपि किं न तथा १ । मत्वा न जानामीति प्रतीतिस्तत्र बाधिकेति चेत्, न, वैशेषिकाणां नानुमिनोमीति प्रतीतेरिव शाब्दे तस्या विशेषविषयत्वात् । नच निसर्गाधिगमसम्यक्त्व रूपकार्य भेदान्मतिश्रुतज्ञान रूपकारणभेद इत्यपि साम्प्रतम् तत्र निसर्गपदेन स्वभावस्यैव ग्रहणात् । यद्वाचकः - ( प्रशमरति ) “शिक्षागमोपदेश- श्रवणान्येकार्थिकान्यधिगमस्य । एकार्थः परिणामो भवति निसर्गः स्वभावश्च ।। २२३ ।। इति" । यत्रापि मतेः श्रुतभिन्नत्वेन ग्रहणं तत्र गोबलीवर्दन्याय एवाश्रयणीयः। तदिदमभिप्रेत्याह महा
For Print And Personal Use Only
Acharya Shal Kalassagarsun Gyanmandir
श्रुतज्ञान निरूपये श्रु
तस्य मतिज्ञानादभि
त्वमेवेति
नव्यमतस्योपदर्शनम् ॥
॥ ९७ ॥