________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
एवोच्यते नाऽवग्रहः, उपचारकारणाभावात् । अयं फलांशः ॥ कालमानं त्वस्यान्तर्मुहूर्तमेव, सौदामिनी सम्पातजनितप्रत्यक्षस्य चिरमननुवृत्तेर्व्यभिचार इति चेत्, न, अन्तर्मुहूर्तस्यासख्य भेदत्वात्, अन्त्यविशेषावगमरूपापायोत्तरमावि च्युतिरूपा धारणा प्रवर्तते, साप्यान्तमौहूर्तिकी । अयं परिपाकांशः ॥ वासनास्मृती तु सर्वत्र विशेषावगमे द्रष्टव्ये । तदाह जिनभद्रगणिक्षमाश्रमणः, सामन्नमित्तगहणं, णेच्छइओ समय मोग्गो पढमो ॥ तचोणंतरमीहिय- वत्धुविसेसस्स जोवाओ।। २८२ ।। तो पुणरहिावायावेरकाए ओग्गहोति उवयरिओ | एस विसेसावेरकं, सामन्नं गिण्इए जेणं ॥ २८३॥ तचोणंतरमीदा, तओ अवाओ अ तव्विसेसस्स ॥ इह सामन्नविसेसा - वेरका जावंतिमो भेओ ।। २८४ ॥ सव्वत्येहावाया, णिच्छयओ मोतुमाइसामन्नं ॥ संववहारत्थं पुण, सव्वत्थावग्गहोवाओ || २८५ ॥ तरतमजोगाभावे - वाओ चिय धारणा तदवमि ॥ सव्वत्थ वासणा पुण, भणिया कालन्तरे सई य ॥ २८६॥।” (ज्ञानार्णवप. ५८-५९ ) ति । न चाविच्युतेर पायावस्थानात्पार्थक्ये मानाभावः, विशेषजिज्ञासानिवृत्यवाच्छिनस्वरूपस्य कथञ्चिद्धिमत्वाद्, अवगृह्णामि, ईहे, अवैमि, स्थिरीकरोमीतिप्रत्यया एव च प्रतिप्राण्यनुभवसिद्धा अवग्रहादिभेदे प्रमाणं, स्मृतिजनकतावच्छेदकत्वेनैव वाऽविच्युतित्वं धर्मविशेषः कल्प्यते, तत्तदुपेक्षान्यत्वस्य स्मृतिजनकतावच्छेदक कोटिप्रवेशे गौरवादिति धर्मविशेषसिद्धौ धर्मिविशेषसिद्धिरित्यधिकं मत्कृतज्ञानार्णवादव सेयम् ॥ तदेवं निरूपितं मतिज्ञानं ॥
तन्निरूपणेन च श्रुतज्ञानमपि निरूपितमेव । द्वयोरन्योऽन्यानुगतत्वा च चैव व्यवस्थापितत्वाच्च । अन्ये वङ्गोपाङ्गादिपरिज्ञानमेव श्रुतज्ञानमन्यच मतिज्ञानमित्यनयोरपि भजनैव, यदुवाच वाचकचक्रवर्ती "एकादी न्येकस्मिन्भाज्यानि त्वाचतुर्म्य इति" (तार्थ अ ०१ - ३१) । शब्दसंसृष्टार्थमात्रग्राहित्वेन श्रुतत्वे त्ववग्रहमात्रमेव मतिज्ञानं प्रसज्येत, धारणो वरं स्वसमानाकार श्रुतावश्य
१७
For Print And Personal Use Only
Acharya Shal Kalassagarsun Gyanmandir
मतिज्ञाननि
रूपणे व्या
वहारिका
ऽवग्रहत्व
मवायस्थ,
अविच्युतेर.
पायात्पार्थ
क्यं मति ज्ञाननिरू
पणतः श्रुतज्ञाननिरूप
णातिदेशः ॥