Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
भीज्ञानबिन्दुप्रकरणम् ॥
।। ९४॥
www.khatirth.org
संशयादीनामपि ज्ञानत्वस्य महाभाष्यकृता परिभाषितत्वात् । न च सम्यक्त्वसाहित्येन ज्ञानस्य रुचिरूपत्वं सम्पद्यते, रुचिरूपं च ज्ञानं प्रमाणमिति सम्यक्त्वविशेषणोपादानं फलवदित्यपि साम्प्रतम्, एतस्य व्यवहारोपयोगित्वेऽपि प्रवृत्यनुपयोगित्वात् । न च घटाद्यपायरूपा रुचिरपि सम्यक्त्वमिति व्यवहरन्ति सैद्धान्तिकाः, जीवाजीवादिपदार्थ नवकविषयक समूहालम्बनज्ञानविशेषस्यैव रुचिरूपतयानातत्वात्, केवलं 'सत्संरूपादिमार्ग गास्थानैस्तनि र्गयो भावसम्यक्त्वं, ''सामान्यतस्तु द्रव्यसम्यक्त्वम्' इति विशेष इति । न च घटाद्यपायेऽपि रुचिरूपत्वमिष्टमेव, सदसद्विशेषणाविशेषणादिना सर्वत्र ज्ञानाज्ञानव्यवस्थाकथनात्, तदेव च प्रामाण्यम प्रत्यूहमिति वाच्यं, अनेकान्तव्यापकत्वादिप्रतिसन्धानाहितवास नाव तामेव तादृशबोधसम्भवात् तदन्येषां तु द्रव्यसम्यक्त्वेनैव ज्ञानसद्भावव्यवस्थिते: । अत एव "चरणकरणप्रधानानामपि स्वसम पपरसमय मुक्त व्यापाराणां द्रव्यसम्यक्त्वेन चारित्रव्यवस्थितावपि भावसम्यक्त्वाभावः" प्रतिपादितः सम्मतौ महावादिना। द्रव्यसम्यक्त्वं च, "तदेव सत्यं निःशंकं यजिनेन्द्रः प्रवेदितमिति'ज्ञानाहितवासनारूपं, माषतुषायनुरोधाद् 'गुरुपारतंत्र्य रूपं वा' इत्यन्यदेतत् । तस्मान्नैते प्रामाण्यप्रकाराः प्रवृत्ययोगिकाः । तद्वति तत्प्रकारकत्वरूपं ज्ञानप्रामाण्यं तु प्रवृथ्यौ पथिकमवशिष्यते, तस्य च स्वतो ग्राह्यत्वमेवोचितम् । न्यायनयेऽपि ज्ञाने पुरोवर्तिविशेष्यताकत्वस्य रजतत्वादिप्रकारकत्वस्य चानुव्यवसाय ग्राह्यतायामवित्रादात्, इमं रजतत्वेन जानामीति प्रत्ययात्, तत्र विशेष्यत्वप्रकारत्वयोरेव द्वितीयादतीयार्थत्वात् तत्र पुरोवर्ति इदन्त्वेन रजतत्वादिनापि चोपनयवशाद्भासताम् । न चेदन्त्ववैशिष्टयं पुरोवर्तिनि न भासत इति वाच्यम्, विशेष्यतायां पुरोवर्तिनः स्वरूपतो मानानुपपत्तेः तादृशाविशेषण ज्ञानाभावात्, अन्यथा प्रमेयत्वादिना रजतादिज्ञानेऽपि तथाज्ञानापचेः, जात्यतिरिक्तस्य किश्चिद्धर्मप्रकारेणैव माननियमाच्च । किञ्च प्रामाण्य
For Print And Personal Use Only
Acharya Shri Kalassagarsun Gyanmandir
उपयोगेऽव
ग्रहादिवृत्ति
चतुष्टयव्या प्यत्वादि
लक्षणं सम्यक्त्वसमाना
धिकरणापायत्वादिलक्षणं च प्रामा
यं न प्रभुयौपयिकं
तादृशं चत
इति तत्प्रका रकर स्वतो ग्राह्यमेवेति प्रश्नः॥ ॥ ९४ ॥

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254