SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भीज्ञानबिन्दुप्रकरणम् ॥ ।। ९४॥ www.khatirth.org संशयादीनामपि ज्ञानत्वस्य महाभाष्यकृता परिभाषितत्वात् । न च सम्यक्त्वसाहित्येन ज्ञानस्य रुचिरूपत्वं सम्पद्यते, रुचिरूपं च ज्ञानं प्रमाणमिति सम्यक्त्वविशेषणोपादानं फलवदित्यपि साम्प्रतम्, एतस्य व्यवहारोपयोगित्वेऽपि प्रवृत्यनुपयोगित्वात् । न च घटाद्यपायरूपा रुचिरपि सम्यक्त्वमिति व्यवहरन्ति सैद्धान्तिकाः, जीवाजीवादिपदार्थ नवकविषयक समूहालम्बनज्ञानविशेषस्यैव रुचिरूपतयानातत्वात्, केवलं 'सत्संरूपादिमार्ग गास्थानैस्तनि र्गयो भावसम्यक्त्वं, ''सामान्यतस्तु द्रव्यसम्यक्त्वम्' इति विशेष इति । न च घटाद्यपायेऽपि रुचिरूपत्वमिष्टमेव, सदसद्विशेषणाविशेषणादिना सर्वत्र ज्ञानाज्ञानव्यवस्थाकथनात्, तदेव च प्रामाण्यम प्रत्यूहमिति वाच्यं, अनेकान्तव्यापकत्वादिप्रतिसन्धानाहितवास नाव तामेव तादृशबोधसम्भवात् तदन्येषां तु द्रव्यसम्यक्त्वेनैव ज्ञानसद्भावव्यवस्थिते: । अत एव "चरणकरणप्रधानानामपि स्वसम पपरसमय मुक्त व्यापाराणां द्रव्यसम्यक्त्वेन चारित्रव्यवस्थितावपि भावसम्यक्त्वाभावः" प्रतिपादितः सम्मतौ महावादिना। द्रव्यसम्यक्त्वं च, "तदेव सत्यं निःशंकं यजिनेन्द्रः प्रवेदितमिति'ज्ञानाहितवासनारूपं, माषतुषायनुरोधाद् 'गुरुपारतंत्र्य रूपं वा' इत्यन्यदेतत् । तस्मान्नैते प्रामाण्यप्रकाराः प्रवृत्ययोगिकाः । तद्वति तत्प्रकारकत्वरूपं ज्ञानप्रामाण्यं तु प्रवृथ्यौ पथिकमवशिष्यते, तस्य च स्वतो ग्राह्यत्वमेवोचितम् । न्यायनयेऽपि ज्ञाने पुरोवर्तिविशेष्यताकत्वस्य रजतत्वादिप्रकारकत्वस्य चानुव्यवसाय ग्राह्यतायामवित्रादात्, इमं रजतत्वेन जानामीति प्रत्ययात्, तत्र विशेष्यत्वप्रकारत्वयोरेव द्वितीयादतीयार्थत्वात् तत्र पुरोवर्ति इदन्त्वेन रजतत्वादिनापि चोपनयवशाद्भासताम् । न चेदन्त्ववैशिष्टयं पुरोवर्तिनि न भासत इति वाच्यम्, विशेष्यतायां पुरोवर्तिनः स्वरूपतो मानानुपपत्तेः तादृशाविशेषण ज्ञानाभावात्, अन्यथा प्रमेयत्वादिना रजतादिज्ञानेऽपि तथाज्ञानापचेः, जात्यतिरिक्तस्य किश्चिद्धर्मप्रकारेणैव माननियमाच्च । किञ्च प्रामाण्य For Print And Personal Use Only Acharya Shri Kalassagarsun Gyanmandir उपयोगेऽव ग्रहादिवृत्ति चतुष्टयव्या प्यत्वादि लक्षणं सम्यक्त्वसमाना धिकरणापायत्वादिलक्षणं च प्रामा यं न प्रभुयौपयिकं तादृशं चत इति तत्प्रका रकर स्वतो ग्राह्यमेवेति प्रश्नः॥ ॥ ९४ ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy