SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org परतयेति, संवादक बाधक ज्ञानानपेक्षया जायमानत्वं स्वतस्त्वं तच्चाभ्यासदशायां, केवलक्षयोपशमस्यैव तत्र व्यापारात्, तदपेक्षया जायमानत्वं च परतस्त्वं तच्चानभ्यासदशायां, अयं च विभागो विषयापेक्षया स्वरूपे तु सर्वत्र स्वत एव प्रामाण्यनिश्चय इक्षरार्थ इति । " ईयैव हि सर्वत्र प्रामाण्यनिश्चयाभ्युपगमे किं संवादकप्रत्ययापेक्षया १, न खल्वेकं गमकमपेक्षितमिति गमकान्तरमप्यपेक्षणीयम् । न चेहाया बहुविधत्वाद्यत्र न करणसाद्गुण्यासाद्गुण्य विचारस्तत्रैवोक्तस्वतस्त्वपरतस्त्वव्यवस्थेति वाच्यम्, ईहायां क्वचिदुक्तविचारव्यभिचारोपगमे आभ्यासिकापाय पूर्वेहायामनुपलक्ष्यमाणस्यापि तद्विचारस्य नियमकल्पनानुपपत्तेः । न चोक्तविचार ईहायां प्रमाजनकतावच्छेदको न तु तज्ज्ञप्तिजनकतावच्छेदक इत्यपि युक्तम्, करणगुणादेव प्रमोत्पत्तौ तस्यातथात्वात् । न च भाविज्ञानस्यासिद्धत्वादुक्तविचारवत्यापीहया तद्गतप्रामाण्याग्रह इत्यपि साम्प्रतम्, विचारेण करणसद्गुण्य हे भाविज्ञानप्रामाण्यग्रहस्यापि सम्भृतसामग्री कत्वादित्यादिविचारणीयम् । ननु भवतां सैद्धान्तिकमते उपयोगे - वग्रहादिवृत्तिचतुष्टयव्याप्यत्वं, एकत्र वस्तुनि प्राधान्येन सामान्यविशेषोभथावगाहित्वपर्याप्त्याधारत्वं वा, तार्किकमते च प्रमेयाव्यभिचारित्वं प्रामाण्यम योग्यत्वादभ्यासेनापि दुर्ग्रहं समर्थप्रवृत्त्यनौपयिकत्वेनानुपादेयं च । पौद्गलिकसम्यक्त्ववतां सम्यक्त्वदलि कान्वितोऽपायांशः प्रमाणं, क्षायिक सम्यक्त्ववतां च केवलोऽपायांश इति तत्त्वार्यवृत्त्यादिवचनतात्पर्यपर्यालोचनायां तु सम्यक्त्व समानाधिकरणापायत्वं ज्ञानस्य प्रामाण्यं पर्यवस्यति, अन्यथाऽननुगमात्, तत्र च विशेषणविशेष्यभावे विनिगमनाविरहः । ज्ञानं प्रमाणमितिवचनं विनिगमकमिति चेत्, तदपि समर्थप्रवृत्यैौपयिकेन रूपेण विनिगमयेत् न तु विशिष्टापायत्वेनानीदृशेन, 'सम्यक्त्वानुगतत्वेन ज्ञानस्य ज्ञानत्वं, अन्यथा त्वज्ञानत्वं' इति व्यवस्था तु नापायमात्रप्रामाण्यसाक्षिणी, सम्यग्दृष्टिसम्बन्धिनां For Print And Personal Use Only Acharya Shal Kalassagarsun Gyanmandir मलयगिरिप्रभृत्यभिप्रायेण स हथैव प्रामाण्यनिश्रयोपगमे रत्नाकरसूत्रविरोध उपदर्शितः, जैनाभिमते. प्रामाण्या प्रामाण्य स्वतस्य परतस्त्वानैकान्ते दोषोपदर्शनम् । ..
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy