________________
ShrMatiavr Jain ArachanaKendra
प्रवृत्त्यौपविकनिरुक्तमामाण्यस्य ज्ञप्तौं स्वतस्त्वमेवेति प्रश्ननिगमनम्।।
OMGURUCKBUSIk
संशयोत्तरमिदं रजतं नवेत्येव संशयो, न तु रजतमिदं न चा, द्रव्यं रजतं न वेत्यादिरूप इति, यद्विशेष्यकयत्प्रकारकजानत्वावच्छेदेन प्रामाण्यसंशयस्तद्धर्मविशिष्ट तत्प्रकारकसंशय इति नियमादिदन्त्वेन धर्मिभानमावश्यकं,इदन्त्वरजतत्वादिना पुरोवर्तिन उपनयसत्त्वाच्च तथाभानमनुव्यवसाये दुर्वारमिति किमपरमवशिष्यते प्रामाण्ये ज्ञातुम् । न चैकसम्बन्धेन तद्वति सम्बन्धान्तरेण तत्प्रकारकज्ञानव्यावृत्तं, तेन सम्वन्धेन तत्प्रकारकत्वमेव प्रामाण्यं, तच दुग्रहमिति वाच्यं, व्यवसाये येन सम्बन्धेन रजतत्वादिकं प्रकारस्तेन तद्वतोऽनुव्यवसाये भानात् , संसर्गस्य तु तत्वेनैव भानात् । तत्प्रकारकत्वं च वस्तुगत्या तत्सम्बन्धावच्छिन्नप्रकारताकत्वमिति प्रकारताकत्वकुक्षिप्रवेशेनैव वा तदानम् । अत एवेदं रजतमिति तादात्म्यारोपव्यावृत्तये मुख्यविशेष्यता प्रामाण्ये निवेशनीयेति मुख्यत्वस्य दुहत्वमित्युक्तेरप्यनवकाशो, वस्तुगत्या मुख्पविशेष्यताया एव निवेशात , तादाल्यारोपे आरोप्यांश समवायेन प्रामाण्यसवेऽप्यक्षतेश्च । एतेन 'तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वमात्रं न प्रामाण्यं,'इमे रखरजते' 'नेमे रङ्गरजते' इति विपरीतचतुष्कभ्रमसाधारण्यात् , किं तु तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वं, तच्च प्रथमानुष्यवसाये दुहम्' इत्यपि निरस्तम् ।। ..
वस्तुगत्या तादृशप्रकारताकत्वस्य सुग्रहत्वादेव तद्हेऽनुव्यवसायसामनघाऽसामर्थ्यस्य व्यवसायप्रतिबन्धकत्वस्प चा कल्पनमभिनिवेशेन स्वबुद्धिविडम्बनामात्र,तथाकल्पनायामप्रामाणिकगौरवात् । एतेन 'विधेयतवाऽनुव्यवसाये स्वातन्त्र्येण प्रामाण्यमाने व्यवसायप्रतिबन्धकत्वकल्पनापि' परास्ता । तत्र तद्वद्विशेष्यकतोपस्थितितदभाववाद्विशेष्यकत्वाभावोपस्थित्यादीनामुचेजकत्वादिकल्पने महागौरवात् । यदि च विशेष्यत्वादिकमनुपस्थितं न प्रकारः, तदा विशेष्यतासम्बन्धेन रजतादिमचे सति प्रकारितया रजतत्वादिमत्त्वमेव प्रामाण्यमस्तु । एतज्ज्ञानमेव लाघवात्प्रवृत्यौपयिक । तस्माज्ज्ञप्ती प्रामाण्यस्य स्वतस्त्वमेव युक्तम् ।
ABRSPEAK
ER
Fox PwAnd Personal use only