________________
S
a
kanda
Achatya Sas
s
Gym
बवानविन्दु प्रकरणम्॥ ॥९५॥
HिUMKASBA
अप्रामाण्यं तु नानुव्यवसायग्राह्य, रजतत्वाभाववचेन पुरोवर्तिनोऽग्रहणे तथोपनीतभानायोगात्, रजतत्वादिमत्तया शुक्त्यादिधीविशेष्यकत्वं रजतत्वप्रकारकत्वं च तत्र गृह्यते, अत एव, 'अप्रमापि प्रमेत्येव गृह्यते' इति चिन्तामणिग्रन्थः 'प्रमेतीत्येव व्याख्यातस्तांत्रिकैः इत्यप्रामाण्यस्य परतस्त्वमेव । न च प्रामाण्यस्य स्वतस्त्वे ज्ञानप्रामाण्यसंशयानुपपत्तिा, ज्ञानग्रहे प्रामाण्यग्रहात्तदग्रहे धर्मिग्रहाभावादिति वाच्यं, दोषात् तत्संशया मीन्द्रियसन्निकर्षस्यैव संशयहेतुत्वात् । प्राक् प्रामाण्याभावोपस्थितौ धर्मिज्ञानात्मक एव वाऽस्तु प्रामाण्यसंशय इति स्वतस्त्वपरतस्त्वानेकान्तः प्रामाण्याप्रामाण्ययोजनानां न युक्त इति चेद्, अत्र ब्रूमः। रजतत्ववद्विशेष्यकत्वावच्छिन्नरजतत्वप्रकारताकत्वरूपस्य रजतज्ञानप्रामाण्यस्य वस्तुतोऽनुव्यवसायेन ग्रहणात, स्वतस्त्वाभ्युपगमेऽप्रामाण्यस्यापि स्वतस्त्वापाता, रजतभ्रमानुव्यवसायेनापि वस्तुतो रजतत्वाभाववद्विशेष्यकत्वावच्छिन्नरजतत्वप्रकारताकत्वस्यैव ग्रहात्, तत्र चास्माभिरनेकान्तवादिभिरिष्टापत्तिः कर्तुं शक्यते, द्रव्यार्थतः प्रत्यक्षस्य योग्यद्रव्यप्रत्यक्षीकरणवेलायां तद्गतानां योग्यायोग्यानां धर्माणां सर्वेषामभ्युपगमात, 'स्वपरपर्यायापेक्षयाऽनन्तधर्मात्मकं तत्त्वम्' इति वासनावत एकज्ञत्वे सर्वज्ञत्वध्रौव्याभ्युपगमाच, (आचाराङ्ग) "जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ ति" पारमर्षस्यत्थमेव स्वारस्यव्याख्यानात् । अवोचाम चाध्यात्मसारप्रकरणे-(प्रवन्ध २) "आसचिपाटवाभ्यास-स्वकार्यादिमिरा- श्रयन् ।। पर्यायमेकमप्यर्थ, वेत्ति भावाद् बुधोऽखिलम् ॥वै. भेदप्र. ३०॥" इति । न चेयं रीतिरेकान्तवादिनो भवत इति प्रतीच्छ प्रतिबन्दिदण्डप्रहारम् । ननु रजतत्ववद्विशेष्यकत्वरजतत्वप्रकारत्वयोरेव ज्ञानोपरि भानं, अवच्छिन्नत्वं तु तयोरेव मिथः संसर्गः, एकत्र भासमानयोईयोर्धमयोः परस्परमपि सामानाधिकरण्येनैवावच्छिन्नत्वेनाप्यन्वयसम्भवादित्येवं प्रामाण्यस्य स्वतस्त्वं,
अप्रामाण्यस्य तु परतो ग्राह्यत्वमेवेति प्रामाण्याप्रामाण्ययोः स्व
तस्त्वपरनस्त्वानेकान्तो जैनानां नयत इति
प्रश्नपति
॥९५॥
Fat PW
And Penal Use Only