Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 203
________________ Shri Mahavir Jain Aradhana Kendra श्रीज्ञानबिन्दु प्रकरणम् ।। ॥ ९३ ॥ /www.ketatirth.org हमेदात् । तत्र व्यञ्जनेन शब्दादिपरिणतद्रव्य निकुरम्बेण व्यञ्जनस्य श्रोत्रेन्द्रियादेवग्रहः सम्बन्धो व्यञ्जनावग्रहः, स च मल्लकप्रतिबोधकदृष्टान्ताभ्यां सूत्रोक्ताभ्यामसङ्ख्ये य समयभावी । तस्यामप्यवस्थायामव्यक्ता ज्ञानमात्रा, प्रथमसमयेऽशेनाभवतश्चरमसमये भवनान्यथानुपपत्त्या भाष्यकृता प्रतिपादिता । युक्तं चैतत् निश्चयतोऽविकलकारणस्यैव कार्योत्पत्तिव्याप्यत्वाद्, अविकलं च कारणं ज्ञाने उपयोगेन्द्रियमेव, तच्च व्यञ्जनावग्रहकाले लब्धसत्ताकं कथं न स्वकार्य ज्ञानं जनयेदिति, अयमुपयोगस्य कारणांशः । ननु व्यञ्जनावग्रहः प्राप्यकारिणामेवेन्द्रियाणामुक्तो नाप्राप्यकारिणोभक्षुर्मनसोरिति तत्र कः कारणांशो वाच्यः १, द्यर्थावग्रस्त सर्वत्र स एवास्त्विति चेत्, न, तत्राप्यर्थावग्रहात्प्राग् लब्धीन्द्रियस्य ग्रहणोन्मुखपरिणाम एवोपयोगस्य कारणांश इत्यभ्युपगमात् । न च सर्वत्रैकस्यैवाश्रयणमिति युक्तम्, इन्द्रियाणां प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थाप्रयुक्तस्य ह्रस्वदीर्घकारणांशभेदस्यागमयुक्त्युपपन्नत्वेन प्रतिबन्दिपर्यनुयोगानवकाशात् । अर्थावग्रहः सामान्यमात्र ग्रहः, यतः किञ्चिद्दृष्टं मया न तु परिभावितमिति व्यवहारः, स चैकसामयिकः, तत ईहोपयोग आन्त मौहूर्तिकः प्रवर्तते, स च सद्भूताऽसद्भूतविशेषोपादानत्यागाभिमुख बहुविचारणात्मकः पर्यन्ते तत्तत्प्रकारेण धर्मिणि साध्यत्वाख्यविषयताफलवान् भवति । अत एव "फलप्रवृत्तौ ज्ञानप्रामाण्यसंशयवत्करणप्रवृत्तावपीन्द्रियादिगतगुणदोपसंशयेन विषयसंशयादिन्द्रियसाद्गुण्यविचारणमपीइयैव जन्यते, केवलमभ्यासदशायां तज्झटितिजायमानत्वात् कालसौक्ष्म्येण नोपलक्ष्यते, अनभ्यासदशायां तु वैपरीत्येन स्फुटमुपलक्ष्यत" इति मलयगिरिप्रभृतयो वदन्ति । एवं सति स्वजन्यापाये सर्वत्रार्थयाथात्म्य निश्चयस्येहयैव जन्यमानत्वात् " तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वत: परतश्च” इत्याकर (प.१-२०) सूत्रं विरुध्येत, तदुभयं प्रामाण्यमप्रामाण्यं च, परत एवेति कारणगतगुणदोषापेक्षयेत्यर्थः, स्वतः For Print And Personal Use Only Acharya Shel Kailassagarsun Gyanmandir व्यञ्जनार्थी वग्रहभेदे - नावग्रह है विध्यं व्य जनस्वरू पद्वैविध्यं व्यञ्जनावग्र हनिरूपणश्च ततोऽर्थावग्रहादीनां निरूपणम् । ॥ ९३ ॥

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254