________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं श्रीज्ञाना
-
प्रकरणम् ॥
॥ ८५ ॥
www.ketafirth.org
प्रकृतत्वात्, यथा न्यायनये " बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् " इति सांख्याभिमतस्य शब्दभेदादर्थभेदस्य निरासाय ज्ञानपर्यायाभिधानम्, एकरूपेणैकार्थबोधकशब्दद्वयं च पर्यायः, अन्यथा पृथिवीघटशब्दयोरपि पर्यायत्वव्यवहारप्रसङ्गादिति, तथा च कथमीहापोहादीनां मतिज्ञानपर्यायत्वमिति चेत्, सत्यं - अवग्रहणादियोगार्थ भेदेऽप्यवग्रहादिशब्दानां मतिसामान्यप्रवृत्तिकत्वेन पर्यायत्वात् योगार्थभेदस्यापि पर्यायत्वप्रतिपन्थित्वे घटकलशादिपदानामपि तवं न स्यात्, न चैवमवग्रहेहादिसङ्करप्रसङ्गः १, अवग्रहादीनां सामान्या दिग्राहित्वेऽप्यव्यक्तव्यक्ततत्तदवभासविशेषेण विशेषात्, नहि यथाभूतमवग्रहे सामान्य मात्रार्थस्यावग्रहणं तथाभूतमेवेहायां, किन्तु विशिष्टं विशिष्टतरं विशिष्टतमं चाऽपायधारणयो:, यथाभूता चेहायां मतिचेष्टा ततो विशिष्टतरा विशिष्टतमा चापायधारणयोः, अविशिष्टतरा चाऽवग्रहे, अर्थावगमनमप्यपायाद्विशिष्टं धारणायां, अविशिष्टमविशिष्टतरं चेहावग्रयोः, अर्थधारणमप्यवग्रहेहापायेभ्यः सर्वप्रकृष्टं धारणायामिति । तदिदमाह - Xxx [इयानेवोपलब्धोयं ग्रन्थः,अग्रेतनः समाप्तिं यावत्प्रभूततमो ग्रन्थभागः खण्डित इति तद्बुभुत्सूनां किश्चिद्दिक्सूचकप्रायं प्रदर्श्यते ]
[सव्वं वाभिणिबोहिय- मिहोग्गहाइवयणेण संगहियं ॥ केवलमत्थविसेसं, पर भिन्ना उग्गहाईया ।। ३९९ ।। [सर्व वाऽभिनिबोधिकमिहावग्रहादिवचनेन सङ्गृहीतम् ॥ केवलमर्थविशेषं प्रति भिन्ना अवग्रहादयः ] अथावग्रदेहापायधारणानामविशिष्टविशिष्टविशिष्टतरविशिष्टतमार्थप्रतिपादकत्वेन कथं ततच्छब्देनाभिनिबोधिकं सगृह्यत इति चेत्, अत्राह - अविशिष्टयौगिकार्थाश्रयणेन सर्वेषामप्येकवाचकत्वेनाभिनिबोधिकत्वेऽविरोधात् ! इदमुक्तं भवति, अवग्रहणमवग्रह इतिव्युत्पत्तिमाश्रित्य सर्वमप्याभिनिबोधिकमवग्रहः, यथाहि, कमप्यर्थमवग्रहोsवगृह्णाति, तथेहापि कमप्यर्थमवगृह्णात्येव, एवमपायधारणे अपि कमप्यर्थमवगृहीत इति सर्वमप्याभिनिबोधिकं
For Print And Personal Use Only
Acharya Shel Kailassagarsun Gyanmandir
( योजितः पाठ: ) पोहा
दोनां मति
ज्ञानपर्याथ
त्वस्यावग्र हणादितारतम्यस्य
च व्यवस्थापनम् । सर्व
स्याभिनिबोधिकस्यावग्रहादिश
ब्देन सय होपपादन वा ॥ ८५ ॥