________________
सविवरणं भीज्ञाना
कप्रकरणम्॥ ॥७९॥
CREASANAORE
| भवन्ति, अन्तर्मुहूर्तमपि महाप्रयत्नस्य लघु भवति अल्पप्रयत्नस्य तु बृहत्प्रमाणं भवतीति, उक्तार्थसंवादिन्यौ भाष्यस्येमे गाथे
"गहणं मोक्खो भासा, समयं गह-निसिरणं च दो समया ॥ होंति जहणंतरओ, तं तस्स च बीयसमयम्मि ।। ३७१ ॥ गहणं मोक्खो भासा, गहणविसग्गा य होंति उक्कोसं ॥ अंतोमुहुत्तमेवं, पयत्तभेएण भेयो सिं ॥३७९॥" [ग्रहणं मोक्षो भाषा समय, ग्रह-निसर्जनं च द्वौ समयौ। भवन्ति जघन्यान्तरतस्तत् तस्य द्वितीयसमये॥ ग्रहणं मोक्षो भाषा ग्रहणविसौ च भवन्त्युत्कर्षतः॥ अन्तर्मुहूर्तमानं प्रयत्नभेदेन भेद एषाम् ॥] इति, प्रथमसमये ग्रहणमेव चरमसमये निसर्ग एच, मध्यसमये तु द्वावपि भवतः, एकस्मिन् समये कथं तदुभयं विरोधादिति नाशङ्कनीयम्, यस्यैव यस्मिन् समये ग्रहणं तस्यैव तस्मिन्नेव समये निसर्ग इत्युपगमे स्याद्विरोधः, न चैवमुपगमः, किन्तु प्रथमसमये यस्य ग्रहणं तस्य द्वितीयसमये निसर्गोऽन्यस्य च तदानीं ग्रहणमित्येवमुत्तरोत्तरसमयेऽभ्युपगमे विषयभेदेन विरोधाभावात, एकस्मिन् समये उपयोगद्वयस्यैवासम्भवो न तु. क्रियादयस्य "जुगवं दो नत्थि उवओगा" इतिवचनादागमे उपयोगद्वयस्यैव यौगपद्यनिषेधो न तु क्रियाद्वयस्य, "भंगियसुयं गणतो, वट्टइ तिविहे विज्झाणम्मि" इत्यादिवचनेन वामनःकायक्रियाणामेकत्र समये प्रवृत्तिरभ्युपगतैव, अगुल्यादिसंयोगविभागक्रिययोः, संघातपरिसाटक्रिययोः, उत्पादच्ययक्रिययोश्चैकत्र समयेऽनेकस्थानेष्वागमेऽनुज्ञा विहितैव, तथाऽध्यक्षतोऽपि जिनप्रतिमामर्चयतः पुंसः एकस्मिन् समये करणभेदेन घण्टिकाचलनधूपदानप्रतिमादिवीक्षणस्तुतिपठनादीनां बह्वीनामपि क्रियाणां युगपत् प्रवृत्तिदृश्यत इति ॥ तदाह भाष्यकारः “गहणविसग्गपयत्ता, परोप्परविरोहिणो कहं समए । समए दो उवओगा, न होज, किरियाण को दोसो ॥३७३ ॥" [ग्रहणविसर्गप्रयत्नौ, परस्परविरोधिनौ कथं समये ? ॥ समये द्वावुपयोगौ न भवेतां क्रियाणां को दोषः]
(योजितः
पाठः) ग्रहणादेर्जघन्योत्कृष्टकालमानोपदर्शने भाष्यसंवादः एकसमये क्रियायौगपद्याविरोधे भाष्य- . संवादश्च
॥७९॥