________________
AGRABHASABHASHA
गृणाति, एकेनोत्तरोत्तरसमयेन निसृजतीत्येवम्परतया वोपपद्यत इति, तमिममर्थ प्रतिपादयति भाष्यगाथाचतुष्टयं यथा"आह, सुए चिय निसिरइ, संतरियं न उ निरंतर भणियं ॥ एगेण जओ गिण्हइ, समयेणेगेण सो मुयइ ॥३६७।। अणुसमयमणतरियं, गहणं भणियंजओ विमुक्खो वि ।। जुत्तो निरंतरो चिय, भणइ, कह संतरो भाणओ ॥३६८।। गहणावेक्खाए तओ, निरंतर जम्मि जाई गहियाई ॥न वि तम्मि चेव निसिरइ, जह पढमे निसिरणं नस्थि ॥३६९।। निसिरिजइ नागहियं, गहणंतरियति सतरं तेण ॥ न निरंतरंति न समयं, न जुगवमिह होंति पजाया ॥ ३७० ॥" [आह, श्रुत एव निसृजति, सान्तरितं न तु निरन्तरं भणितम् ॥ एकेन यतो गृह्णाति, समयेनेकेन स मुञ्चति ॥ अनुसमयमनन्तरितं, ग्रहणं भणितं यतो विमोक्षोऽपि ॥ युक्तो निरन्तर एव, भणति कथं सान्तरो भणितः १ ॥ ग्रहणापेक्षया तको, निरन्तरं यस्मिन्यानि गृहीतानि । नापि तस्मिन्नेव निसृजति, यथा प्रथमे निसर्जनं नास्ति ॥ निसृज्यते नाऽगृहीतं, ग्रहणान्तरितमिति सान्तरं तेन ॥ न निरन्तरमिति न समयं, न युगपदिह भवन्ति पर्यायाः ॥] इति, ग्रहणादेजघन्यमुत्कृष्टश्च कालमानमेवं प्रतिपत्तव्यं, तथाहि-ग्रहणनिसर्गभाषा इत्येवं त्रीण्यपि प्रत्येकं जघन्यत एकसमयानि भवन्ति, ग्रहणनिसर्गोभयन्तु प्रथमसमये ग्रहणं द्वितीयसमये निसर्ग इति कृत्वा द्विसमयम्, निसर्गादभेदेऽपि भाषाया भाष्यमाणैव भाषा न तु गृह्यमाणेति निसर्गस्यैव भाषात्वं न तु ग्रहणनिसर्गोभयस्येत्येतत्प्रतिपत्तये पृथगभिधानं, उभयस्य भाषात्वे द्विसमयत्वापत्तिः, ग्रहणस्य तु भाषाव्युत्पत्तिनिमित्ताभावादेव न भाषात्वं, भाषायाः पृथगग्रहणे तु कश्चित्तदुभयस्यापि योग्यतया भाषात्वं प्रतिपद्येत, तत्र 'भासिजमाणा भासा' इत्यागमविरोधः, निसर्गभाषयोरभेदेऽपि मन्दधियः निसर्गकालमानानुक्तिभ्रमोन्मूलनार्थ निसर्गस्यापि पृथग्वचनम्, सर्वाण्यप्येतानि उत्कृष्टता प्रत्येकमन्तर्मुहूर्तकालं
GERRHEARREARRRRRRES
(बोजितः पाठः) अनुसमय
वाति मुच्चमातीत्येतत्स४ वादकं भाष्य
| वचनं ग्रहॐणादेर्जघन्य
मुत्कृष्टश्च कालमान
मुपपादि
तम् ॥
१४