Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1 Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut PrakashanPage 25
________________ २२ नन्दी - चूलिकासूत्रं शक्ति:, केवलं स्थाणुमुखेन स एवात्मानं मार्गोपदेष्टारं कथयति, एवं वेदस्यापि न स्वार्थी -- पदर्शनशक्तिः, ततस्तन्मुखेन जैमनिरात्मानमेवार्थनियमस्त्रष्टारमुपदर्शितवान्, तन्त्र लौकिकशब्दव्यवहारानुसरणान्नापि युक्तर्नापि च सम्प्रदायाद् वेदस्यार्थनिश्चयो, नापि तस्यापौरुषेयत्वसाधकं किनपि प्रमाणमित्यसम्भव्यपौरुषेयम्, उक्तं च "बान्ध्येयखरविषाणतुल्यमपौरुषेय" मिति, ननु यदि बान्ध्येयखरविषाणतुल्यमपौरुषेयं भवेत् तर्हि न वेदवचोऽपौरुषेयतया शिष्टाः प्रतिगृह्णीयुः, अथ च सर्वेष्वपि देशेषु शिष्टाः प्रतिगृह्णन्तो दृश्यन्ते, तस्मान्नासम्भव्यपौरुषेयम्, तदत्र पृच्छामः - के शिष्याः ?, ननु किमत्र प्रष्टव्यम् ?, ये ब्राह्मणीयोनिसम्भविनो वेदोक्तविधिसंस्कृता वेदप्रणीताचारपारिपालनैकनिषण्णचेतसः ते शिष्टाः, तदेतयुक्तं, विचारक्षमत्वात्, तथाहि किमिदं नाम ब्राह्मणत्वं यद्योनिसम्भवाच्छिष्टत्वं भवेत् ?, ब्रह्मणोऽपत्यत्वमिति चेत् तथाहि--ब्रह्मणोऽपत्यं ब्राह्मण इति व्यपदिशन्ति पूर्वर्षयः, न एवं सति चाण्डालस्यापि ब्राह्मणत्वप्रसक्तिः तस्यापि ब्रह्मतनोरुत्पन्नत्वात्, उक्तं च"ब्रह्मणोऽपत्यतामात्राद्, ब्राह्मणोऽतिप्रसज्यते । न कश्चिदब्रह्मतनोरुत्पन्नः कश्चिदिष्यते ॥" यदप्युक्तम्- 'वेदोक्तविधिसंस्कृता वेदप्रणीताचारपरिपालनै कनिषण्णचेतसः' इति तदप्ययुक्तम्, इतरेतराश्रयदोपप्रसङ्गात्, तथाहि वेदस्य प्रामाण्ये सिद्धे सति तदुक्तविधिसंस्कृता: तदर्थसमाचारणाच्छिष्टा भवेयुः, शिष्टत्वे च तेषां सिद्धे सति तत्परिग्रहाद्वेदप्रामाण्यमित्येकाभावेऽन्यतरस्याप्यभाव:, आहच "शिष्टैः परिगृहीतत्वाच्चेदन्योऽन्यसमाश्रयः । वेदार्थाचरणाच्छिष्टास्तदाचाराच्च स प्रभा ।। " स्यादेतत्त-भवतोऽपि तत्त्वतोऽपौरुषेयं वचनमिष्टमेव, तथाहि सर्वोऽपि सर्वज्ञो वचनपूर्वक एवेच्यते, "तप्पुव्विया अरिहया" इति वचनप्रामाण्यात्, ततोऽनादित्वात् सिद्धं वचनस्यापौरुषेयत्वमिति, तदयुक्तमा, अनादितायामप्यपौरुषेयत्वायोगात्, तथाहि सर्वज्ञपरम्पराऽप्येषाऽनादिरिष्यते, ततः पूर्व: पूर्व : सर्वज्ञः प्राक्तनसर्वज्ञप्रणीतवचनपूर्वको भवन्न विरुध्यते, किं च-वचनं द्विधा - शब्दरूपमर्थरूपं च तत्र शब्दरूपवचनापेक्षया नायमस्माकं सङ्गरो, यदुतसर्वोऽपि सर्वज्ञो वचनपूर्वक इति, मरुदेव्यादीनां तदन्तरेणापि सर्वज्ञत्व श्रुतेः, किन्त्वर्थरूपापेक्षया, ततः कथं शब्दापौरुपेयत्वाभ्युपगमप्रसङ्गः ?, नन्वर्थपरिज्ञानमपि शब्दमन्तरेण नोपपद्यते, तत्कथं न शब्दरूपापेक्षयाऽपि सङ्गरः, तदसत्, शब्दमन्तरेणापि विशिष्टक्षयोपशमादिभावतोऽर्थपरिज्ञानसम्भवात् तथाहि दृश्यन्ते तथाविधक्षयोपशमभावतो माग्र्गानुसारिबुद्धेर्वचनमन्तरेणापि तदर्थप्रतिपत्तिरिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सर्वज्ञ श्रुतप्रभवा ऋषभादयोऽप्यासीरन् न च ते सम्प्रति स्तोतुं प्रस्तुता इति तद्यवच्छेदार्थं विशेषणान्तरमाह - तीर्थकराणामपश्चिमो जयति, तत्र जन्मजरामरणसलिलसम्भृतं मिथ्यादर्शनाविरतिगम्भीरं महाभीमकषायपातालं दुरवगाहमहामोहावर्त्तभीषणं रागद्वेषपवनविक्षोभितं विविधानिष्टसंयोगवियोगवीचीनिचयसंकुलं उच्चैस्तरमनोरथसहस्रवेलाकलितं संसारसागरंतरन्ति येन तत्तीर्थं तच्च सकलजीवाजीवादिपदार्थसार्थप्ररूपकं अत्यान्तानवद्यं शेषतीर्थान्तरी www.jainelibrary.org Jain Education International For Private & Personal Use Only -Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 ... 265