Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२३८
नन्दी-चूलिकासूत्रं दृष्व्याः , तथाहि-खपरसत्ताभावाभावात्मकं वस्तुतत्रं, यथा जीवो जीवात्मना भावरूपो अजीवात्मना चाभावरूपः, अन्यथाऽजीवत्वप्रसङ्गात्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयादिति, तथाऽनन्ता ‘हेतवो' हिनोति-गमयति जिज्ञासितधर्मविशिष्टमर्थमिति हेतुः, ते चानन्ताः, तथाहिवस्तुनोऽनन्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकास्ततोऽनन्ता हेतवो भवन्ति, यथोक्तहेतुप्रतिपक्षभूता अहेतवः, तेऽपि अनन्तां, तथा अनन्तानि कारणानि घटपटादीनां निर्वर्तकानि मृत्पिण्डतन्त्वादीनि, अनन्तान्यकारणानि, स्रवेषामपि कारणानां कार्यान्तराण्यधिकृत्याकारणत्वात्, तथा जीवा-प्राणिनः, अजीवाः-परमाणुव्यणुकादयः, भव्या-अनादिपारिणामिकसिद्धिगमनयोग्यतायुक्ताः, तद्विपरिता अभव्याः, सिद्धा अपगतकर्ममलकलङ्का, असिद्धाः संसारिणः, एते सर्वेऽप्यनन्ताः प्रज्ञप्ता:, इह भव्याभव्यानामानन्त्येऽभिहितेऽपि यत्पुनरसिद्धा अनन्ता इत्यभिहितं तत्सिद्धेभ्यः संसारिणामनन्तगुणताख्यापनार्थं !
सम्प्रति द्वादशाङ्गविराधनाफलं त्रैकालिक-मुपदर्शयति
मू.(१५७) इच्चेइअंदुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अनुपरिअद्विंसु, इच्चेइअंदुवालसंगं गणिपिडगं पडुपनकाले परित्ता जीवा आनाए विराहिता चाउरतं संसारकंतारं अनुपरिअटुंति, इच्चेइअंदुवालसंगं गणिपिडगं अणागए काले अनंता जीवा आणाए विराहिता चाउरंतं संसारकंतारअनुपरिअद्विस्संति।इच्चेइयंदुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए विराहित्ता चाउरतं संसारकंतार वौइवइंसु. इच्चेइअं दुवालसंगं गणिपिडगं पडुप्पनकाले परित्ता जीवा आणाए विराहित्ता चाउरंत संसारकंतार वीईवयंति, इच्चेइअंदुवालसंग गणिपिडगं अनागए काले अनंता जीवा आणाए विराहित्ता चाउरतं संसारकंतारवीईवइस्सति। .. ___ इच्चेइअंदुवालसंगं गणिपिडगं न कयाइ नासी न कयाइ न भवइ न कयाइ न भविस्सइ भुविं च भवइ अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे से जहानामए पंचत्थिकाए न कयाए नासीन कयाइ नत्थिन कयाइ न भविस्सइ भुविं च भवइ अभविस्सइ अ धुवे नियए सासए अक्खए अव्वए अवट्ठिए निच्चे, एवामेव दुवालसंगे गणिपिडगे न कयाइ नासीन कयाइ नत्थिन कयाइ न भविस्सइ भुनि च भवइ अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे।
से समासओ चउविहे पन्नत्ते, तंजहा-दबओ खित्तओ कालओ भावओ, तत्थ दव्वओणं सुअनाणी उवउत्ते सव्वदव्वाइं जाणइ पासइ, खित्तओ नंसुअनाणी उवउत्ते सव्वं खेतं जाणइ पासइ कालओनंसुअनाणी उवउत्ते सव्वं कालं जाणइ पासइ भावओ नंसुअनाणी उवउत्ते सव्वे भावे जाणइ पासइ।
वृ.'इच्चेइय'मित्यादि, इत्येतद् द्वादशाङ्गगणिपिटकमतीते कालेऽनन्ता जीवा आज्ञयायथोक्ताज्ञापरिपालनाऽभावतो विराध्य चतुरन्तं संसारकान्तारं-विविधशारीरमानसानेकदुःखविटषिशतसहस्रदुस्तरं भवगहनं 'अनुपरियट्टिसु' अनुपरावृत्तवन्त आसन्, इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधं, द्वादशाङ्गमेव चाऽऽज्ञा, आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ यया साऽऽज्ञेतिव्युत्पत्तेः ततश्चाज्ञा त्रिविधा, तद्यथा-सूत्राज्ञा अर्थाज्ञा उभयाज्ञा च, सम्प्रति अमूषामाज्ञानां विराधना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265