________________
२२
नन्दी - चूलिकासूत्रं शक्ति:, केवलं स्थाणुमुखेन स एवात्मानं मार्गोपदेष्टारं कथयति, एवं वेदस्यापि न स्वार्थी -- पदर्शनशक्तिः, ततस्तन्मुखेन जैमनिरात्मानमेवार्थनियमस्त्रष्टारमुपदर्शितवान्, तन्त्र लौकिकशब्दव्यवहारानुसरणान्नापि युक्तर्नापि च सम्प्रदायाद् वेदस्यार्थनिश्चयो, नापि तस्यापौरुषेयत्वसाधकं किनपि प्रमाणमित्यसम्भव्यपौरुषेयम्, उक्तं च
"बान्ध्येयखरविषाणतुल्यमपौरुषेय" मिति, ननु यदि बान्ध्येयखरविषाणतुल्यमपौरुषेयं भवेत् तर्हि न वेदवचोऽपौरुषेयतया शिष्टाः प्रतिगृह्णीयुः, अथ च सर्वेष्वपि देशेषु शिष्टाः प्रतिगृह्णन्तो दृश्यन्ते, तस्मान्नासम्भव्यपौरुषेयम्, तदत्र पृच्छामः - के शिष्याः ?, ननु किमत्र प्रष्टव्यम् ?, ये ब्राह्मणीयोनिसम्भविनो वेदोक्तविधिसंस्कृता वेदप्रणीताचारपारिपालनैकनिषण्णचेतसः ते शिष्टाः, तदेतयुक्तं, विचारक्षमत्वात्, तथाहि किमिदं नाम ब्राह्मणत्वं यद्योनिसम्भवाच्छिष्टत्वं भवेत् ?, ब्रह्मणोऽपत्यत्वमिति चेत् तथाहि--ब्रह्मणोऽपत्यं ब्राह्मण इति व्यपदिशन्ति पूर्वर्षयः, न एवं सति चाण्डालस्यापि ब्राह्मणत्वप्रसक्तिः तस्यापि ब्रह्मतनोरुत्पन्नत्वात्, उक्तं च"ब्रह्मणोऽपत्यतामात्राद्, ब्राह्मणोऽतिप्रसज्यते ।
न कश्चिदब्रह्मतनोरुत्पन्नः कश्चिदिष्यते ॥"
यदप्युक्तम्- 'वेदोक्तविधिसंस्कृता वेदप्रणीताचारपरिपालनै कनिषण्णचेतसः' इति तदप्ययुक्तम्, इतरेतराश्रयदोपप्रसङ्गात्, तथाहि वेदस्य प्रामाण्ये सिद्धे सति तदुक्तविधिसंस्कृता: तदर्थसमाचारणाच्छिष्टा भवेयुः, शिष्टत्वे च तेषां सिद्धे सति तत्परिग्रहाद्वेदप्रामाण्यमित्येकाभावेऽन्यतरस्याप्यभाव:, आहच
"शिष्टैः परिगृहीतत्वाच्चेदन्योऽन्यसमाश्रयः । वेदार्थाचरणाच्छिष्टास्तदाचाराच्च स प्रभा ।। "
स्यादेतत्त-भवतोऽपि तत्त्वतोऽपौरुषेयं वचनमिष्टमेव, तथाहि सर्वोऽपि सर्वज्ञो वचनपूर्वक एवेच्यते, "तप्पुव्विया अरिहया" इति वचनप्रामाण्यात्, ततोऽनादित्वात् सिद्धं वचनस्यापौरुषेयत्वमिति, तदयुक्तमा, अनादितायामप्यपौरुषेयत्वायोगात्, तथाहि सर्वज्ञपरम्पराऽप्येषाऽनादिरिष्यते, ततः पूर्व: पूर्व : सर्वज्ञः प्राक्तनसर्वज्ञप्रणीतवचनपूर्वको भवन्न विरुध्यते, किं च-वचनं द्विधा - शब्दरूपमर्थरूपं च तत्र शब्दरूपवचनापेक्षया नायमस्माकं सङ्गरो, यदुतसर्वोऽपि सर्वज्ञो वचनपूर्वक इति, मरुदेव्यादीनां तदन्तरेणापि सर्वज्ञत्व श्रुतेः, किन्त्वर्थरूपापेक्षया, ततः कथं शब्दापौरुपेयत्वाभ्युपगमप्रसङ्गः ?, नन्वर्थपरिज्ञानमपि शब्दमन्तरेण नोपपद्यते, तत्कथं न शब्दरूपापेक्षयाऽपि सङ्गरः, तदसत्, शब्दमन्तरेणापि विशिष्टक्षयोपशमादिभावतोऽर्थपरिज्ञानसम्भवात् तथाहि दृश्यन्ते तथाविधक्षयोपशमभावतो माग्र्गानुसारिबुद्धेर्वचनमन्तरेणापि तदर्थप्रतिपत्तिरिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः ।
तत्र सर्वज्ञ श्रुतप्रभवा ऋषभादयोऽप्यासीरन् न च ते सम्प्रति स्तोतुं प्रस्तुता इति तद्यवच्छेदार्थं विशेषणान्तरमाह - तीर्थकराणामपश्चिमो जयति, तत्र जन्मजरामरणसलिलसम्भृतं मिथ्यादर्शनाविरतिगम्भीरं महाभीमकषायपातालं दुरवगाहमहामोहावर्त्तभीषणं रागद्वेषपवनविक्षोभितं विविधानिष्टसंयोगवियोगवीचीनिचयसंकुलं उच्चैस्तरमनोरथसहस्रवेलाकलितं संसारसागरंतरन्ति येन तत्तीर्थं तच्च सकलजीवाजीवादिपदार्थसार्थप्ररूपकं अत्यान्तानवद्यं शेषतीर्थान्तरी
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
-