________________
मूलं - २
२१
द्रविडस्यार्यदेशमुपागतस्य मारिशब्दात्, झटिति वर्षविपया प्रतीतिरुपजायते, विलम्बिता चोपसर्गविषया, यद्वा आर्यदेशात्पन्नस्य द्रविडदेशमधिगतस्य शीघ्रमुपसर्गविषया प्रतीतिः विलम्बिता च वर्पविषया, एवमनया दिशा सत्रें पामपि शब्दानां सर्वार्थवाचकत्वं परिभावनीयं, न च वाच्यम्-एवं सति घटशब्दमात्र श्रवणादखिलार्थप्रतीतिप्रसङ्गो, यथा क्षयोपशममवबोधप्रवृत्तेः, क्षयोपशमश्च सङ्केताद्यपेक्ष इति तदभावे न भवति, ततोऽग्निहोत्रादिशब्दस्य स्वमांसादिवाचकत्वेऽप्यविरोध इति लौकिकशाब्दव्यवहारानुसरणेऽपि न वैदिकवाक्यानामभिलषितनियतार्थप्रतिपत्तिः । किंच
-
लोकप्रसिद्ध नैव शाब्देन व्यवहारेण वयं वेदवाक्यानां प्रतिनियतमर्थं निश्चेतुमुद्युक्ता लौकिकश्च शाब्दो व्यवहारोऽनेकधा परिप्लवमानो दृष्टः, सङ्केतवशतः प्रायः सर्वेषामपि शब्दानां सर्वार्थप्रतिपादनशक्तिसम्भवात्, ततो लौकिकेनैव शाब्देन व्यवहारंणास्माकमाशङ्कोदपादिकोऽत्रार्थः स्यात् ?, किं घृताहुति प्रक्षिपेत् स्वर्गकाम इति उताहो स्वमांसं स्वादेदिति ?, तत्कथं तत एव निश्चयः कर्तुं बुध्यते ?, न हि यो यत्र संशयहेतुः स तत्र निश्चयमुत्पादयितुं शक्त इति, अपि च नैकान्तेन वेदे लौकिकशाब्दव्यवहारानुसरणं, स्वग्र्गोर्वश्यादिशब्दानामरूढार्थानामपि तत्र व्याख्यानात् यथा स्वर्गः सुखविशेष: उर्वशी तु-अरणिरिति, तथा शब्दान्तरेष्वप्यरूढार्थकल्पना किं न सम्भविनि ?, उक्तं च
Jain Education International
-
"स्वर्गोर्वश्यादिशब्दस्य, दृष्टोऽरूढार्थवाचक: ।
शब्दान्तरेषु तादृक्षु, तादृश्येवास्तु कल्पना ||१||”
स्यादेतद्-अग्निहोत्रादेर्वाक्यस्य स्वमांसभक्षणप्रसङ्गो न युक्तो, वेदेनैवान्यत्र तस्यान्यथा व्याख्यानात्, तदयुक्तम्, तत्रापि वाक्यार्थस्य् निर्णयाभावात्, यथोक्तं प्राक् न हि अप्रसिद्धार्थस्य वाक्यस्य अप्रसिद्धार्थमेव वाक्यान्तरं नियतार्थप्रसाधनायालं, तुल्यदोपत्वात्, अथेत्थमाचक्षीथाः-यत्रार्थे न काचित्प्रमाणबाधा सोऽर्थो ग्राह्यो, न चाग्निहोत्रादिवाक्यस्य धृताहुतिप्रक्षेपरूपेऽर्थे प्रमाणबाधामुत्पश्यामः, तत्कथं तमर्थं न गृह्णीस: ?, तदेतत् स्वमांसभक्षणलक्षणेऽप्यर्थे समानं, न हि तत्रापि कांचित्प्रमाणबाधामीक्षामहं अपि च- यदि प्रमाणबलात्प्रवृत्तिमीहसे तर्हि पारुषेयमेव वचस्त्वयोपादेयं, तस्य लोकप्रतीत्यनुसारितया सम्प्रदायतोऽधिगतार्थतया च प्रायो युक्तिविषयत्वात्, नापौरुषेयं, विपरीततया तत्र युक्तेरसम्भवात्, तथाहि
}
काsत्र युक्तिः ? यया स्वमांसभक्षणात् स्वर्गप्राप्तिर्बाध्यते, न धृताहुतिप्रक्षेपादिति ?, धृताद्याहुतिप्रक्षेपादीनां स्वर्गप्रापणादिशक्तेरतीन्द्रियत्वेन प्रत्यक्षाद्यगोचरत्वात्, सम्प्रदायस्य चार्थनैयत्यकारिणोऽसम्भवाद्, एतच्चानन्तरमेव वक्ष्यामः, अथागमार्थाश्रया युक्ति: स्वमांस-भक्षणतः स्वर्गप्राप्तेर्बाधिका भविष्यति, तदयुक्तम्, आगमार्थस्याद्याप्यनिश्चयात् अनिश्चितार्थस्य च बाधकत्वायोगात्, अथ सम्प्रदायादर्थनिश्चयो भविष्यति, तथाहि प्रथमतो वेदेन जैमनये स्वार्थ उपदर्शितः पश्चात्तेनास्मभ्यमुपदिष्ट इति, तदप्यसत्, वेदस्य हि यदि स्वार्थोपदर्शने शक्तिः ततोऽस्मभ्यमपि स्वार्थं कि नोपदर्शयति ?, तस्माज्जैमनयेऽपि न तेन स्वार्थोदर्शितः, किन्तु स वेदमुखेनात्मानमेवार्थनियमस्त्रष्टारमुपदर्शितवान्, यथा कश्चित्केनचित्ष्टः को मार्गः पाटलि पुत्रस्य ?, स प्राह-- एष स्थाणुर्दृश्यमाणो वक्ति-- अयं मार्गः पाटलिपुत्रस्य, तत्र न स्थाणोर्वचन
)
For Private & Personal Use Only
www.jainelibrary.org