________________
नन्दी - चूलिकासूत्रं यमन्यदप्यदृष्टहेतुकं ततो हेतोर्भवतीति सम्प्रीतयं, यथेन्बधनादेको वह्निर्दष्टः ततः तत्समानस्वभावोऽपरोऽप्यदृष्टहेतुक : तत्समानहेतुकः सम्प्रीतये, लौकिकेन च शब्देन समानधर्मा सर्वोऽपि वैदिक: शब्दराशि:, ततो लौकिकवद्वैदिकोऽपि शब्दाराशि: पौरुषेयः सम्प्रतीयतां, स्यादेतद्वैदिकेषु शब्देषु यद्यपि न पुरुपो हेतु:, तथापि पौरुषेयाभिमतशब्दसमानावशिष्टपदवाक्यारचना भविष्यति ततः कथं तत्समानधर्म्मतामवलोक्य पुरुषहेतुकथा तषामनुमीयते, तदेतद्बालिशजल्पितं, पदवाक्यरचना हि यदि हेतुमन्तरेणापीप्यते तत आकस्मिकी सा भवेत्, ततश्चाकाशादावपि सा सर्वत्र सम्भवेत, अहेतुकस्य देशादिनियमायोगात्, न च सा सर्वत्रापि सम्भवति, तस्मात्पुरुष एव तस्या हेतुरित्यवश्यं प्रतिपत्तव्यम् ।
अन्यच्च - पुरुषस्य रागादिपरीतत्वेन यथावद्वस्तुपरिज्ञानाभावात्, तत्प्रणीतं वाक्यमयथार्थमपि सम्भाव्यते इति संशयहेतु: पुरुषोपकीर्णः, स च संशयोऽपौरुपंयत्वाभ्युगमेऽपि वेदवाक्यानां तदवस्थ एव, तथाहि- स्वयं तावत्पुरुषो वेदस्यार्थं नावबुध्यते, रागादिपरीतत्वात्, नाप्यन्यतः पुरुषान्तरात्, तस्यापि रागादिपरीतत्वेन यथातत्त्वमपरिज्ञानाद्, अथ जैमनिश्चिरतरपूर्वकालभावी पटुयज्ञः सम्यग्वेदार्थस्य परिज्ञाताऽऽसीत् ततः परिज्ञानमभूदिति, न हि सर्वेऽपि पुरुषा: समानप्रज्ञामेधादिगुणा इति वक्तुं शक्यम्, सम्प्रयपि प्रतिपुरुषं प्रज्ञादेस्तारतम्यस्य दर्शनात्, ननु स जैमनिः पुरुषो वेदस्यार्थं यथावस्थितमवगच्छति स्मेति कुतो निश्चयः ?, प्रमाणेन संवादादिति चेत् नन्वतीन्द्रियेष्वर्थेषु न प्रमाणस्यावतारो, यथा अग्निहोत्रहवनस्यं स्वर्गसाधनत्वे, बहवश्चातीन्द्रिया अर्था वेदे व्यावर्ण्यन्ते, तत्कथं तत्र संवादः ?, अथ येष्वर्थेष्वस्मादृशं प्रमाणसम्भवः तद्विषये प्रमाणसंवाददर्शनादतीन्द्रियाणामप्यर्थानां स सम्यक् परिज्ञाताऽभ्युपगम्यते, तदप्ययुक्तम्, रागादिकलुषिततया तस्यातीन्द्रियार्थपरिज्ञानासम्भवाद्, अन्यथा सर्वेषामप्यतीन्द्रियार्थप्रदर्शित्वप्रसक्तिस्तत: तत्कृतातीन्द्रियार्थव्याख्या मिथ्यैव, अपिच - आगमोऽर्थतः परिज्ञात: सन् प्रेक्षावतामुपयोगविषयो भवति, नापरिज्ञातार्थं शब्दगडुमात्रं ततोऽर्थः प्रधान, स चेत्पुरुषप्रणीत: किंशब्दमात्रस्यापौरुषेयत्वपरिकल्पनेन ?, निरर्थकत्वात्, तन्नान्यतोऽपि वेदार्थस्य सम्यगवगमः, नापि वेदः स्वकीयमर्थमुपदेशमन्तरेण स्वयमेव साक्षादुपदर्शयति, ततो वेदस्येष्टार्थप्रतिपत्त्युपायाभावाद् 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इति श्रुतौ यथा वेदप्रामाणिकैरयमर्थः परिकल्प्यते - धृताद्याहुति परिक्षिपेत् स्वर्गकाम इति, तथाऽयमध्यर्थः तैः किं न कल्पते ?खादेत्स्वमांसं स्वर्गकाम इति, नियामकाभावाद्, उक्तं च
२०
"स्वयं रागादिमान्नार्थं, वेत्ति वेदस्य नान्यतः । नवेदयति वेदोऽपि वेदार्थस्य कुतो गतिः ? ॥ १ ॥ तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ । खादेत्स्वमांसमित्येष, नार्थ इत्यत्र का प्रभा ? ||२||"
अथ य एव शाब्दो व्यवहार लोके प्रसिद्धः स एव वेदवाक्यार्थनिश्चयनिबन्धनं, न च लोकेऽग्निहोत्रशब्दस्य स्वमांसं वाच्यम्, नापि जुहुयादित्यस्य भक्षणं, तत्कथमयमर्थः परिकल्प्यते ?, तदयुक्तम्, नानार्था हि लोके शब्दा रूढाः, यथा गोशब्दः, अपि च सर्वे शब्दाः प्रायः सर्वार्थानां वाचकाः, देशादिभेदतो द्रुतविलम्बितादिभेदेन तथाप्रतीतिदर्शनात्, तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org