________________
मूलं-२ स्यादेतद्-यदिवेदविषये करोति: स्मरणेनवर्येत तर्हि वेदस्य प्रामाण्यं न स्याद्, अथ च प्रामाण्यमभ्युपगम्यते, तच्चापौरुषपेयत्वादेव, अन्यथा सर्वांगमानामपि प्रामाण्यप्रसक्तेः, ततोऽत्रापि करोतिः प्रामाण्यान्यथानुपपत्त्यां स्मरणे वर्त्य इति, तदेतदसत्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि-- प्रामाण्ये सिद्धे सति तदन्यथानुपपत्त्या करोते, स्मरणे वर्त्तनं, करोते: स्मरणे वृत्तौ चापौरुषेयत्वसिद्धितः प्रामाण्यमित्येकासिद्धावन्यतरासिद्धिः, अनेकान्तिकं च कर्तुरस्मरणं, वटे वटे वैश्रणव' इत्यादिशब्दानां पौरुषेयाणामपि कर्तुरस्मृतेः, यत्वान् तत्कारमुपलभते एवेति चेत्, न अवश्यं तदुपलम्भसम्भवः, नियमाभावात् किंच___ अपौरुषेयत्वेनाभ्युपगतस्य वेदस्य कर्ता नैवास्ति कश्चित् पौरुषेयत्वेनाभ्युपगतस्य च वटे वटे वैश्रवण इत्यादेरस्तीति न प्रमाणात् कृतश्चिद्विनिश्चयः, किन्तु परोपदेशात्, स च भवतो न प्रमाणं, परस्य रागादिपरीतत्वेन यथावद्वस्तुतत्त्वापरिज्ञानात्, ततः कर्तुभावसन्देह इति सन्दिग्धासिद्धोऽप्यं हेतुः, एतेन यदन्यदपि साधनमवादीद्, वेदवादी-'वेदाध्ययनं सर्वं गुज़ध्ययनपूर्वक, वेदाध्ययनत्वाद्. अधुनातनवेदाध्ययनवदिति, तदपि निरस्तमवसेयं, एवमपौरुषेयत्वसाधने सर्वस्याप्यपौरुषेयत्वप्रसक्तेः, तथाहि-कुमारसम्भवाध्ययनं सर्वं गुर्वध्ययनपूर्वकं, कुमारसम्भवाध्ययनत्वाद्, इदानीन्तनकुमारसम्भवाध्ययनवदिति कुमारसम्भवादीनामध्ययनानादितासिद्धेरपौरुषेयत्वं दुर्निवारं, न च तेषामपौरुषयत्वं, स्वयंकरणपूर्वकत्वेनापि तदध्यययनस्य भावाद्. एवं वेदाध्ययनमपि किञ्चित्स्वयंकरणपूर्वकमपि भविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतुः स्यादेतत्-वेदाध्ययनं स्वयंकरणपूर्वकं न भवति, वेदानां स्वयं कर्तुमशक्तः, तथा चात्र प्रयोगः-पूर्वेषां वेदरचनायामशक्तिः, पुरुषत्वाद्, इदानीन्तपुरुषवदिती,ि तदप्युक्तम्, अत्रापि हेतोर्व्यभिचारात्, तथाहि- भारतादिष्विदानीन्तनपुरुषाणामशक्तावपि कस्यचित्पुरुषस्य व्यासादेः शक्तिः श्रूयते, एवं वेदविषयेऽपि सम्प्रति पुरुषाणां कर्तुमशक्तावपि कस्यचित्प्राक्तनस्य पुरुषविशेषस्य शक्तिर्भविष्यतीति।
अपि च-यथाऽग्निसामान्यस्य ज्वालाप्रभवत्वमरणिनिर्मथनप्रभवत्वं च परस्परमबाध्यबाधकत्वान्न विरुध्यते, को ह्यत्र विरोधः अग्निश्च स्यात् कदाचिदरणिनिर्मथनपूर्वकः पथिकाग्नित्याद्, आद्यानन्तराग्निवदित्ययं हेतर्व्यभिचारी, विपक्षे वृत्तिसम्भवात्, तथा वेदाध्ययनमपि विपक्षे वृत्तिसम्भवात् व्यभिचार्येव, तथाहि-वेदाध्ययने स्वयंकरणपूर्वकमपीति, यदा त्वेवं विशिष्यते-यस्तु तथाविधः स्वयंकृत्वाऽध्येतुमसमर्थः तस्य वेदध्ध्ययनमध्ययनान्तरपूर्वकमिति, तदा न कश्चिद्दोषः, यथा यादृशोऽग्निालाप्रभवो दृष्टः तादृशः सर्वोऽपि ज्वालाप्रभव इति, अस्तु वा सर्वं वेदाध्ययनमध्ययनान्तरपूर्वकं, तथाऽप्येवमानदिता सिद्धेद्वेदस्य, नापौरुषेत्वं, अथात एवानादितामात्रादपौरुषेयत्वसिद्धिरिप्यते तर्हि डिम्भकपांशुक्रीडादेरपि पुरुषव्यवहारस्यापौरुषेयतापत्तिः, तस्यापि पूर्वपूर्वदर्शनप्रवृत्तित्वेनानादित्यात्, अपिच
स्युरपौरुपेया वेदा यदि पुरुषाणामादिः स्याद् वेदाध्ययनं चानादि, तदाप्याद्यपुरुषस्याध्ययनमध्ययनान्तरपूर्वकं न सिद्धयति, अध्यापतुरभावात्, न च पुरुषस्य ताल्वादिकरणग्रामव्यापाराभावात् स्वयं शब्दाध्यनन्ति, ततो वेदस्य प्रथमोऽवात् स्वयं शब्दा ध्वनन्ति, ततो वेदस्य प्रथमोऽध्येता कर्तववेदितव्यः, अपि च-यद्वस्तु यद्धेतुकमन्वयव्यतिरेकाभ्यां प्रसिद्ध तज्जाती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org