________________
-
नन्दी - चूलिकासूत्रं पुरुपव्यापारमन्तरेण वचनमाकाशे ध्वनदुपलभ्यते, अपि च तदपौरुषंयं वचनमकारणत्वान्नित्यमंभ्युपगम्यते, 'सदकारणवन्नित्य' मिति वचनप्रामाण्यात्, ततश्च अत्र विकल्पयुगलमवतेतीर्यते, तदपौरुषेयं वचः किमुपलभ्यस्वभावभुतानुपलभ्यस्वभावं ?, तत्र यद्यनुपलभ्यस्वभावं तर्हि तस्य नित्य-त्वेनाभ्युपगमात् कदाचिदपि स्वभावाप्रच्युते: सर्वदैवोपलम्भाभावप्रसङ्गः, अथोपलम्भस्वभावं तर्हि सर्वदानुपरमेनोपलभ्येत, अन्यथा तत्स्वभावताहानिप्रसङ्गाद्, अथोपलभ्यस्वभावमपि सहकारिप्रत्ययमपेक्षयोपलम्भमुपजनयति तेन न सर्वदोपलम्भप्रसङ्गः, तदयुक्तम्, एकान्तनित्य-स्य सहकार्यपेक्षाया अयोगात्,
1
ततो विशेषप्रतिलम्भलक्षणा हि तस्य तत्रापेक्षा, यदाह धर्मकीर्त्तिः - 'अपेक्षाया विशेषप्रतिलम्भलक्षणत्वादि'ति, न च नित्यस्य विशेषप्रतिलम्भोऽसि, अनित्यत्वापत्तेः तथाहि-स विशेषप्रतिलम्भ: तस्यात्मभूतः, ततो विशेषे जायमाने स एव पदार्थ: तेन रूपेण जातो भवति, प्राक्तनं विशिष्टावस्थालक्षणं रूपं विनष्टमित्यनित्यत्वापत्तिः, अथोच्येत - सविशेषप्रतिलम्भो न तस्यात्मभूतः किन्तु व्यतिरिक्तः कथमनित्यत्वापत्तिः ?, यद्येवं तर्हि कथं स तस्य सहकारी ?, न हि तेन सहकारिणा तस्य वचनस्य किमप्युपक्रियते, भिन्नविशेषकरणात्, अथ भिन्नोऽपि विशेषः तस्य सम्बन्धी तेन तत्सम्बन्धिविशेषकरणात् तस्याप्युपकारी द्रष्टव्य इति सहकारी व्यपदिश्यते, ननु विशेषेणापि सह तस्य वचनस्य कः सम्बन्धो ?, न तावत्तादात्म्यं, भिन्नत्वेनाभ्युपगमात्, नापि तदुत्पत्तिः, विकल्पद्वयानतिक्रमात्, तथाहि किं वचनेन विशेषो जन्यते ? उत विशेषेण वचनम् ?, तत्र न तावदाद्यः पक्षो, विशेषस्य सहकारिणो ऽभावात् नापि द्वितीयो वचनस्य नित्यतया कर्त्तुमशक्यावाद्, अथ मा भूद् वचनविशेषयोर्जन्यजनकभाव:, आधारधेयभावो भविष्यति, तदप्यसमीचीनम्, आधाराधेयभावस्यापि परस्परोपकार्योपकारकभावोपेक्षत्वात् तथा-वदरं पतनधर्मकं सत् कुंडेन स्वानंतरदेशस्थायितया परिणामि जन्यते, तस्यान्यतोऽभावात्, ततः कथमनयोराधाराधेयभावः ?, अथ तेन विशेषेण वचनस्योपकारः कश्चित्कियते ततः स तस्य सम्बन्धी, ननु स उपकारः ततो भिन्नोऽभिन्नो वेत्यादि तदेवावर्त्तते इत्यनवस्था ।
१८
,
अपिच-कुतः प्रमाणाद्वचनस्यापौरुषेयत्वाभ्युपगमः ?, कर्तुरस्मरणादिति चेत्, न, तस्याप्यसिद्धत्वात्, तथाहि - स्मरन्ति जिनप्रणीतागमतत्त्ववेदिनो वेदस्य कर्तृन पिप्पलादप्रभृतीन्, स कर्तृस्मरणवादः तेषां मिथ्यारूप इति चेत्, क इदानीमेवं सति पौरुषयः, सर्व्वस्याप्यपौरुषेयत्वप्रसक्ते:, तथाहि कालिदासादयोऽपि कुमारसम्भवादिष्वात्मानमन्यं वा प्रणेतारमुपदिशन्त एवं प्रतिक्षेतुं शक्यन्ते, मिथ्या त्वमान्तमानमन्यं वा कुमारसम्भवादिषु प्रणेतारमुपदिशसीति, ततः कुमारसम्भवादयोऽपि ग्रन्थाः सर्वेऽप्यपौरुषेयाः भवेयुः तथा च कः प्रतिविशेषो वेदे ? येन स एव प्रमाण तयाऽभ्युपगम्यते न शेषागामा:, अपि च-यौष्माकीणैरपि पूर्वमहर्षिभिः सकृर्तृत्वं वेदस्याभ्युपगतमेव, तथा च तद्ग्रन्थः - 'ऋगिरावृचश्चक्रुः सामानि सामगिरा' विति, अथ तत्र करोतिः स्मरणे वर्त्तते न निष्पादने, दृष्टश्च करोतिर्थान्तरेऽपि वर्त्तमानो, यथा संस्कारे, तथा च लोके वक्तारः - पृष्ठ मे कुरु पादौ मे कुव्विति, अत्र हि संस्कारे एव करोतिर्वर्त्तते, नापूर्वनिर्वर्त्तने सम्भवति, अशक्यक्रियत्वात्, ततोऽन्यथानुपपत्त्या संस्कारे एव करोतिर्वर्त्तते, वेदविषये तु नान्यथाऽनुपपन्नं किमपि निबन्धनमस्ति ततः कथं तत्र स्मरणे वर्त्तयितुं शक्तये ?
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International