________________
१७
मलं-१
"दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः।
धने चैतान् शुभंस्थाने, तस्माद्धर्म इति स्मृतः॥" ततः सकलस्यापि प्राणिगणस्य पितृतुल्यः, तस्यापि च पिता भगवान्, अर्थातः तेन प्रणीतत्वात्, ततो भगवान् जगत्पितामहः, जयतीति पुनः क्रियाभिधानं स्तवाधिकारददुष्टम्, उक्तं च--
"सज्झायझाणतव ओसहेसु उवएसथुइपयाणेसुं।
संतगुणकित्तणेसु य न होति पुनरुत्तदोसा उ॥" अनेनापि परार्थसम्पदमाह, भगवानिति' भगः-समग्रैश्चर्यादिलक्षणः, आह च
"ऐश्चर्यस्य समग्रस्य, रूपस्य यशसः श्रियः ।
धर्मस्याथ प्रयत्नस्य, षषणां भग इतीङ्गना ।।" भगोऽस्यास्तीति भगवान्, अनेन स्वपरार्थसम्पदमाह, स्वपरोपकारित्वादैश्वर्यादेः । तदेवमनादिमन्तोऽनन्तास्तीर्थकत इति ज्ञापनार्थं सामान्यतस्तीर्थकृत्रमस्कारमभिधाय साम्प्रतं सकलसांसारिकदुःखातं कसमुच्छेदाप्रतिहतशक्ति परमोषधकल्पप्रवचनप्रतिपादकतयाऽऽसत्रोकारित्वादत्तमानतीर्थाधिपतेर्भगवद्धद्धमानस्वामिनो नमस्कारमभिधित्सुराहमू.(२) जयइ सुआणं पभवो तित्थराणं अपच्छिमो जय।।
जयइ गुरू लोगाणं जयइ महप्पा महावीरो।। व,जयतीति पूर्ववत्. श्रुतानां-स्वदर्शनानुगतसकलशास्त्राणां प्रभवन्ति सर्वाणिशास्त्राण्यस्मादिति प्रभवः-प्रथममुत्पत्तिकारणं, तदुपदिष्टमर्थमुपजीव्य सर्वेषां शास्त्राणां प्रवर्त्तनात्, परदर्शनशास्त्रष्वपि हि य: कश्चित्समीचीनोऽर्थः संसारसारतास्वर्गापवर्गादिहेतुः प्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यो, न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणा-- तीन्द्रियः प्रमाणाबाधितोऽर्थः पुरुपमात्रेणोपदेष्टुं शक्यते, अविपयत्वात्, न चातीन्द्रियार्थपरिज्ञानं परतीथिकानामस्तीत्येतदग्रे वक्ष्यामः, ततस्ते भगवत्प्रणीतशास्त्रेभ्यो मौलं समीचीनमर्थलेशमुपादाय पश्चादभिनिवेशवशत: स्वस्वमत्युनसारेण तास्ताः स्वस्वप्रक्रियाः प्रपञ्चितवन्तः, उक्तं च स्तुतिकारण
"सुनिश्चितं नः परन्त्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्तिसम्पदः।
तवैव ता: पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिनवाक्यविग्रुपः॥१॥" शाकटायनोऽपि यापनीययतिग्रामाग्रणी: स्वोपज्ञशब्दानुशासनवृत्तावादौ भगतव: स्तुतिमेवमाह-'श्रीवीरममृतंज्योतिर्नत्वाऽऽदिसर्ववेदसाम्' अत्रचन्यासकृता व्याख्या-'सर्ववेदसां' सर्वज्ञानानां स्वपरदर्शनसम्बन्धिसकलशास्त्रानुगतपरिज्ञाननाम् 'आदि' प्रभवं प्रथममुत्पत्तिकारणमिति। अत एव चेह श्रुतानामित्यत्र बहुवचनम्, अन्यथैकवचनमेव प्रयुज्यते, प्रायः श्रुतशब्दस्य केवलद्वादशाङ्गमात्रवाचिनः सर्वत्रापि सिद्धान्ते एकवचनान्ततया प्रयोगदर्शनात्, सर्वश्रुतकारणत्वेन च भगवतः स्तुतिप्रतिपादने इदमप्यावेदितं द्रष्टव्यम्-सर्वाण्यपि श्रुतानि पौरुषपाण्येव, नकिमप्यपौरुपयमस्ति, असम्भवात्, तथाहि-शास्त्र वचनात्मकं, वचनं ताल्वोष्टपुट.. परिस्पन्दादिरूपपुरुषव्यापारान्वयव्यतिरेकानुविधायि, ततस्तदभावे कथं भवति?, न खलु 30/2]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org