________________
मूलं - २ याविज्ञातचरणकरणक्रियाधारं सकलत्रैलोक्यान्तगर्तविशुद्धधर्मसम्पत्समन्वितमहापुरुषाश्रयमविसंवादिप्रवचनं तत्करणशीलाः तीर्थकरा: तेषां-तीर्थकराणाम् अस्मिन् भारते वर्षेऽधिकृतायामवसर्पिण्यां न विद्यतं पश्चिमोऽस्मादित्यपश्चिम :- सर्वान्तिम:, पश्चिम इति नोक्तम्, अभिक्षेपसूचकत्वात्पश्चिमशब्दस्य, ननु सर्वोऽपि प्रेक्षावान् फलार्थी प्रवर्त्तते, अन्यथा प्रेक्षावत्ताक्षितिप्रसङ्गात्, ततोऽसौ तीर्थं कुर्वन्नवश्यं फलमपेक्षते, फलं चापेक्षमाणोऽस्मादृश इव व्यक्तमवीतरागः, तदयुक्तम्, यतः तीर्थकरनामकर्मोदयसमन्विताः सर्वेऽपि भगवन्तो वीतरागाः तीर्थप्रवर्तनाय प्रवर्तन्ते, तीर्थकरनामकर्म्म च तीर्थप्रवर्त्तनफलं ततो भगवान् वीतरारोऽपि तीर्थकरनामकर्मोदयतः तीर्थप्रवर्त्तनस्वभावः सवितेव प्रकाशमुपकार्योपकारानपेक्षं तीर्थं प्रवर्तयतीति न कश्चिद्दोप:, उक्तं च
"तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म्म तीर्थकरनाम । तस्योदयात् कृतार्थोऽप्यर्हस्तीर्थं प्रवर्त्तयति ॥ १॥” तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम्। तीर्थप्रवर्त्तनाय प्रवर्त्तते तीर्थकर एवम् ॥२॥"
ननु तीर्थप्रवर्त्तनं नाम प्रवचार्थप्रतिपादनं, प्रवचनार्थं चेद्भगवान् प्रतिपादयति तर्हि नियमादसर्वज्ञः सर्वस्यापि वक्तुरसर्वज्ञतयोपलम्भाते, तथा चात्र प्रयोग:-विवक्षितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वाद्, रथ्यापुरुपवदिति, तदसत्, सन्दिग्धव्यतिरेकतया हेतोरनैकान्तिकत्वात्, तथाहि--न वचनं सर्ववेदनेन सह विरुध्यते, अतीन्द्रियेण सह विरोधानिश्चयात्, द्विविधो हि विरोध:परस्परपरिहारलक्षणः सहानवस्थालक्षणश्च तत्र परस्परपरिहारलक्षणः तादात्म्यप्रतिषेधे यथा घटपटयो:, न खलु घटः पटात्मको भवति नापि पटो घटात्मकः, 'न सत्ता सदन्तरमुपैती 'ति वचनात्, ततोऽनयोः परस्परपरिहारलक्षणो विरोधः, एवं सर्वेषामपि वस्तूनां भावनीयम्, अन्यथा वस्तुसाङ्कर्य्यप्रसक्तेः, यस्तु सहानवस्थानलक्षणो विरोधः स परस्परं बाध्यबाधकभावसिद्धौ सिद्ध्यति, नान्यथा, यथा वह्निशीतयो:, तथाहि विवक्षिते प्रदेश मन्दं मन्दमभिज्वलितवति वह्रौ शीतस्यापि मन्दं मन्दं भाव:, यदा पुनरत्यर्थमभिज्वाला विमुञ्चति वह्निः तदा सर्वथा शीतस्याभाव इतो भवत्यनयोविरोधः, उक्तं च
d
44
"
Jain Education International
२३
"बाध्यबाधकभावः कः, स्यातां यद्युक्तिसंविदौ । तादृशो ऽनुपलब्धिश्चेदुच्यतां सैव साधनम् ॥ १ ॥” अनिश्चयकरं प्रोक्तमीदृक्षानुपलम्भनम् ।
For Private & Personal Use Only
Ale
'अविकलकारणमेकं तदपरभावे यदा भवन्न भवेत् ।
भवति विरोधः स तयोः शीतहुताशात्मनोर्दृष्टः ।। "
न चैवं वचनसंवेदनयोः परस्परं बाध्यबाधकभावो, न हि संवेदने तारतम्येनोत्कर्पमासादयति वचस्वितायाः तारतम्येनापकर्ष उपलभ्यते, तत्कथमनयोः सहानवस्थालक्षणो विरोध: ?, अथ सर्ववेदोवक्ता नोपलब्ध इति विरोध उद्घष्यते, तदयुक्तम्, अत्यन्तपरोक्षो हि भगवान्, ततः कथमनुपलम्भमात्रेण तस्याभावनिश्चयः ?, अदृश्यविपयस्यानुपलम्भस्याभावनिश्चयकत्वायोगात्, आह च प्रज्ञाकरगुप्तः
-
www.jainelibrary.org