________________
नन्दी-चूलिकासूत्रं तन्नात्यन्तपरोक्षेषु, सदसत्ताविनिश्चयौ ।।२।।" अथ वचनं विवक्षाधीनं विवक्षा च वक्तुकामता सा च रागो रागादिमतश्च सर्वज्ञत्वभावो, वीतरागस्य सर्वज्ञत्वाभ्युपगमात्, ततः कथमिव वक्तृत्वात् नासर्वज्ञत्वानुमानमिति?, तदसद्, वक्तुकामताया रागत्वायोगाद्, अभिष्वङ्गलक्षणो हि रागो, न च भगवतः कापि अभिप्वङ्गः, किमर्थं तर्हिदेशनेति चेत् ननक्तं तीर्थकरनामकर्मोदयात्, अमूढलक्षो हि भगवान् ततो यत्कर्म यथा वेद्यं तत्तथैवाभिप्वङ्गाद्यभावेऽपि वेदयते, तथा चाद्यापि दृश्यन्ते परमौचित्यवेदिनः, क्वचित्प्रयोजनेऽवश्यकर्त्तव्यतामवेत्याभिष्वङ्गाद्यभावेऽपि प्रवर्त्तमानः, तीर्थकरनामकर्म च देशनाविधानेन वेगम्, "तं च कहं वेइज्जइ?, अगिलाए धम्मदेसणाइंहि" इति वचनात्, ततो न कश्चिद्दोपः, स्यादेतत्, मा भूद्रागादिकार्यतया वचनादसर्वज्ञतासिद्धिः, रागादिसहचरिततया तु भविष्यति, तथाहि
रागादिसहचरितं सदैववचनमुपलभ्यते, ततो वचनाद्रागादिप्रतीतावसर्वज्ञत्वसिद्धिः, तदयुक्तम्, सहदर्शनमात्रस्यागमकत्वाद, अन्यथा क्वचिद्वक्तरिगौरत्वेन सह वचनमुपलव्धमिति गौरत्वाभावे कृष्ण वक्तरि न स्यात्. अथ च तत्राप्युपलभ्यतं, तन्न सहदर्शनमात्रं गमकं, ततो विपक्षेव्यावृत्तिसन्देहाद्वक्तृत्वादिति सन्दिग्धानैकान्तिको हेतूफ अथवा विरुद्धोऽपि, विपक्षण सह प्रतिबन्धनिश्चयात्. तथाहि-वचनं संवेदनादेवोपजायते, अन्वयव्यतिरेकाभ्यां तथानिश्चयात्, कथमन्वयव्यतिरेको प्रतीताविति चेत् ?, उच्यते, इह यथा यथा संवेदनमुत्कर्षमासादयति तथा तथा वचस्विताया अप्युत्कर्ष उपलभ्यते, संवेदनोत्कर्पाभावे च वचस्विताया अपकर्षा, मूर्खाणां स्थलभाषितयोपलम्भात्, ततो यथावृष्टितारतम्येन गिरिनदीपूरस्य तारतम्यदर्शनात् सर्वोत्कृष्टपूरदर्शने सर्वोत्कृष्टवृष्टयनुमानंतथेहापि भगवतः सर्वोत्कृष्टवक्तृत्वदर्शनात् सर्वोत्कृष्टंसंवेदनमनुमीयते, अपरस्त्वाह-वचनं वितर्कविचारपुरस्परं, तथोपलम्भात्, वितर्कविचारौ च विकल्पात्मको, विकल्पस्त्वस्पष्टप्रतिभासः, ततो भगवतोऽपि देशनां कुर्वतोऽस्पष्टप्रतिभासं वैकल्पिकं ज्ञानं प्रसक्तं, तच्च भ्रान्तमिति कथमभ्रान्तः सर्ववेदी?, तदसद्, यतो वितर्कविचारावन्तरेणापि केवलज्ञानेन यथावस्थितं वस्तूपलभ्य भगवान् वचनं परावबोधाय प्रयुङ्कते, यथाशब्दव्यवहारनिष्णात; प्रत्यक्षतः स्तम्भमुपलभ्य स्तम्भशब्दं, न च तस्य तथा स्तम्भशब्दं प्रयुञ्जानस्य वितर्कविचारौ. नापि ज्ञानस्यास्पष्टप्रतिभासता, तथाऽननुभवाद्, एवं भगवतोऽपि द्रष्टव्यम्, उक्तं चान्यैरएि -
"चास्पष्टावभासित्वादेव शब्द: प्रवर्तते। प्रत्यक्षदृष्टे स्तम्भादावपि शब्दप्रवर्तनात्॥१॥" अयं स्तम्भ इति प्राप्तमन्यथाऽस्याप्रवर्तनम्।
न चास्पष्टावभासित्वमत्र ज्ञानस्य लक्ष्यते ॥२॥ तथाऽन्यत्रापि शब्दानां, प्रवृत्तिन विरुध्यते।।" इति तदेवं यतो भगवान् सर्वश्रुतानां प्रभवः सर्वतीर्थकृतां चापश्चिमस्तीर्थकर: ततः सकलसत्त्वानां गुरुः, तथा चाह- 'जयति गुरुर्लोकाना' - मिति लोकानां-सत्त्वानां गृणाति प्रवचनार्थमिति गुरुः, प्रवचनार्थप्रतिपादकतया पूज्य इत्यर्थः ।
तथा जयति महात्मा महावीर:' महान्-अविचिन्त्यशक्त्युपेत आत्मास्वभावो यस्यस महात्मा, 'शूरवीर विक्रान्तौ' वीरयति स्मति वीरो-विक्रान्तः, महान् - कषायोपसर्गपरिषहेन्द्रियादिशत्रुगण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org