________________
मूलं-२ जयादतिशायर्या विक्रान्तो महावारः अथवा ईरगतिप्रेरणयोः' विशंपण ईरयति गमयति स्फटयति कर्म प्रापयति वा शिवमिति वीरः, अथवा ईरिगती' विशेषेण-अपुनविन इयर्ति स्म- याति स्मशिवमिति वीरः, महांश्चासौ वीरश्च महावीर: यजतीति पूर्ववद्, भूयोऽस्याभिधानं च स्तवाधि-- काराददुष्टम्॥ पुनरप्यस्यैव भगवतो महावीरस्यातिशयद्वारेण स्तुतिमभिधित्सुराहमू.(३) भदं सव्वं जगुज्जोयगस्स भदं जिनस्स वीरस्स।
भई सुरासुरनमंसियस्स भई धुयरयस्स। वृ. 'भद्रं कल्याणं भवतु, कस्य?, 'सर्वजगदुद्योतकस्य' सर्व- समस्तं जगत्-लोकालाकात कमुद्योतयति-प्रकाशयति केवलज्ञानदर्शनाभ्यामिति सर्वजगदुटोतकः, तस्य 'भद्रायुप्यक्षमसुखहितार्थहितैराशिपी'ति विकल्पेन चतुर्थीविधानात् षष्ट्यपि भवति, यथा आयुष्यं देवदत्ताय आयुष्यं देवदत्तस्य, अनेन ज्ञानातिशयमाह। ___ ननु विशेषणं तदुपादीयते यत्सम्भवति, 'सम्भवे व्यभिचारे च विशेषण मिति वचनात, नच सर्वजगतदुद्योतकत्वं सम्भवति, प्रमाणेनाग्रहणात्. तथाहि-सर्वजगदुद्योतकत्वं भगवतः किं प्रत्यक्षेण प्रतायत? उतानुमानेन आहोश्विदागमेन उताहो उपमानेन अथवा अर्थापत्त्या?, तत्र न तावत्प्रत्यक्षेण, भगवतश्चिरातीतत्वात्, अपिच-परविज्ञानं सदैव प्रत्यक्षाविषयः, अतीन्द्रियत्वात, ततस्तदात्वेऽपि न प्रत्यक्षेण उतानुमानेन?, तद्धिलिङ्गलिङ्गिसम्बन्धग्रहणपुरस्सरमेव प्रवर्तते, लिङ्गलिङ्गिसम्बन्धग्रहणं च किं प्रत्यक्षेणानुमानेन वा?, तत्र न प्रत्यक्षेण, सर्ववेदनस्यात्यन्तपरोक्षतया प्रत्यक्षेण तस्मिन्नगृहीत्ते तन सह लिङ्गस्याविनाभावनिश्चयायोगात्, नचानिश्चिताविनाभावं लिङ्ग लिङ्गिनो गमकम्, अतिप्रसङ्गात्, यतः कुतश्चिद्यस्य तस्य वा प्रतिपत्तिप्रसक्तः, नाप्यनुमानन लिङ्गलिङ्गसम्बन्धग्रहणम्, अनवस्थाप्रसङ्गात, तथाहि__तदप्यनुमानं लिङ्गलिङ्गिसम्बन्धग्रहणतो भवेत्, ततस्तत्रापि लिङ्गलिङ्गिसम्बन्धग्रहणमनुमानान्तरात्कर्तव्यम्, तत्रापि चेयमेव वार्तेत्यनवस्था, नाप्यागमतः सर्ववेदनविनिश्चयः, सहि पौरुषेयो वा स्यादपौरुपेयो वा?, पौरुषेयोऽपि सर्वज्ञकृतो रथ्यापुरुपकृतो वा?, तत्र न तावत् सर्वज्ञकृतः, सर्वज्ञासिद्धौ सर्वज्ञकृतत्वस्यैवाविनिश्चयात्, अपि च-एवमभ्युपगमे सतीतरेतराश्रयदोपप्रसङ्गः, तथाहि-सर्वज्ञसिद्धौ तत्कृतागमसिद्धिः, तत्कृतागमसिद्धौ च सर्वज्ञसिद्धिः, अथ रथ्यापुरुपप्रणीत इति पक्षस्तहि न स प्रमाणमुन्मत्तकप्रणीतशास्त्रवत्, अप्रमाणाच्च तस्मान्न सुनिश्चितसर्वज्ञसिद्धिः, अप्रमाणात्प्रमेयासिद्धेः, अन्यथा प्रमाणपर्येषणं विशीर्येत, अथापौरुपेय इति पक्षस्तहिं ऋपभः सर्वज्ञो वर्द्धमानस्वामी सर्वज्ञ इत्यादिरर्थवादः प्राप्नोति, ऋषभाद्यभावेऽपि भावात्, तथाहि-सर्वकल्पस्थायी आगमः, ऋपभादयस्त्वधुनातनकल्पवर्तिनः, तत ऋषभाद्यभावेऽपि पृर्वमप्यस्यागमस्यैवमेव भावात्मकथमेतेषामृषभादीनामभिधानं तत्र परमार्थसत्?, तस्मादर्थवाद एषः, न सर्वज्ञप्रतिपादनमिति। ___ अपि च-यद्यपौरुषेयागमाभ्युपगमस्तहि किमिदानीं सर्वज्ञेन?, आगमादेव धर्माधर्मादिव्यस्थासिद्धेः, तस्मात् नागमगम्यः सर्ववेदी, नाप्युपमानगम्यः, तस्य प्रत्यक्षपूर्वकत्वात्, तथाहिप्रत्यक्षप्रसिद्धगोपिण्डस्य यथा गौः तथा गवय इत्यागमाहितसंस्कारस्याटव्यां पर्यटतो गवयदर्शनानन्तरं तत्रामप्रतिपत्तिरुपमानं प्रमाणं वर्ण्यते, न चैकोऽपि सर्वज्ञः प्रत्यक्षसिद्धो येन तत्सादृश्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org