Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 218
________________ मूलं - १४० २१५ ततो न कश्चिद्दोष इति, तदेतदतीव प्रमाणमार्गानभिज्ञतासूचकं, यतो यत एव तत्र प्रत्यक्षेण बाधोपलम्भोऽत एव नान्यत्रापि शब्दसाम्यात्तथारूपवस्त्वनुमानं कर्त्तव्यं, प्रत्यक्षत एव शब्दसाम्यस्य वस्तुतथारूपेण सहाविनाभावित्यस्याभावावगमात् न च बाधकमत्र नोपलभ्यते इत्येवानुमानं प्रवर्त्तते, किन्तु वस्तुसम्बन्धबलात्, तथा चोक्तम् "नन बाध्यत इत्येवमनुमानं प्रवर्त्तते । सम्बन्धदर्शनात्तस्य, प्रवर्तनमिहेयष्यते ॥ " इति च सम्बन्धोऽत्र न विद्यते, तद्ग्राहक प्रमाणाभावात्, ततोऽनैकान्तिकता हेतो:, इत्थं चैतदङ्गीकर्त्तव्यं अन्यथा यो यो मृद्विकारः स स कुम्भकारकृतो यथा घटादि:, मृद्विकारश्चायं वल्मीकः तस्मात् कुम्भकारकृत इत्यनुमानं समीचीनतामाचीनस्कन्द्यते, बाधकलभ्यते तस्मादेतदयुक्तमिति, तदेतदीश्वरानुमानेऽपि समानं, यदि हि सर्वस्थापि वस्तुजातस्येश्वरः कर्त्ता तहि कचित्कदाचिदुपलभ्येत न चोपलभ्यते तस्मात्तदप्यलीकमिति कृतं प्रसङ्गेन । येऽपि चात्मवादिनः ‘पुरुष एवेदं सर्व' मिति प्रतिपन्नास्तेऽपि महामोहमहोरगगरलपूरमूच्छितमानसा वेदितव्याः, तथाहि यदि नाम पुरुषमात्ररूपमद्वैतं तत्त्वं तर्हि यदेतदुपलभ्यते सुखित्वदुःखत्वादि तत्सर्वं परमार्थतोऽसत् प्राप्नोति, ततश्चैवं स्थिते यदेतदुच्यते--'प्रमाणतोऽधिगम्यं संसारनैर्गुण्यं तद्विमुखया प्रज्ञया तदुच्छेदाय प्रवृत्ति' रित्यादि तदेतदाकाशकुसुमसौरभवर्णनोपमानमवसेयं, अद्वैतरूपे हि तत्त्वे कुतो नरकादिभवभ्रमणरूपः संसारो ? यन्नेर्गुण्यमवगम्य तदुच्छेदाय प्रवृत्तिरुपपद्यते, यदप्युच्यते- 'पुरुषमात्रमेवाद्वैतं तत्त्वं यत्तु संसारनैर्गुण्यं भावभेददर्शनं च तत्सर्वदा सर्वेषामविगानप्रतिपत्तावपि चित्रे निम्नोन्नतभेददर्शनमिव भ्रान्तमवसेयमिति, तदप्यचारु, एतद्विषयवास्तवप्रमाणाभावात्, तथाहि - नाद्वैताभ्युपगमे किञ्चिदद्वैतग्राहकं ततः पृथग्भूतं प्रमाणमस्ति, द्वैतत्वप्रसक्तेः न च प्रमाणमन्तरेण निष्प्रतिपक्षा तत्त्वव्यवस्था भवति, मा प्रापत्सर्वस्य सर्वेष्टार्थसिद्धिप्रसङ्गः, तथा भ्रान्तिरपि प्रमाणभूतादद्वैताद् भिन्नाऽभ्युपगन्तव्या, अन्यथा प्रमाणभूतमद्वैतमप्रमाणमेव भवेत्, तदव्यतिरेकात्, तत्स्वरूपवत्, तथा च कुतस्तत्त्वव्यवस्था ?, भिन्नायां च भ्रान्तावभ्युपगम्यमानायां द्वैतं प्रसक्तमित्यद्वैतहानिः अपि च-यदीदं स्तम्भाभः कुम्भाम्भोरुहादिभाव भेददर्शनं भ्रान्तमुच्यते तर्हि नियमात्तदपि कचित्सत्यमवगन्तव्यं, अभ्रान्तदर्शनमन्तरेण भ्रान्तेरयोगात्, न खलु येन पूर्वमासीविषो न दृष्टस्तस्य रज्ज्चामासीविषभ्रान्तिरुपजायते, यदुक्तं " , Jain Education International "नादृष्टपूर्वसर्पस्य, रज्ज्वां सर्पमतिः क्वचित् । ततः पूर्वानुसारित्वाद्भ्रान्तिरभ्रान्तिपूर्विका ।। " तत एवमप्यव्याहतो भेदः, अन्यच्च 'पुरुषाद्वैतरूपं तत्त्वमवश्यं परस्मै निवेदनीयं नात्मने, आत्मनो व्यामोहाभावात्, विमोहश्चेदद्वैतप्रतिपत्तिरेव न भवेत्, अथोच्येत-यत एव व्यामोहोऽत एव तत्रिवृत्त्यर्थमात्मनोऽद्वैतप्रतिपत्तिरास्थेया, तदयुक्तम्, एवं सत्यद्वैतप्रतिपत्त्याधानेनात्मनो व्यामोहे निवर्त्यमानेऽवश्यं पूर्वरूपत्यागोऽपररूपस्य चाव्यामूढतालक्षणस्योत्पत्तिरित्यद्वैत - प्रतिज्ञाहानिः परस्मै च प्रतिपादयन्नियमतः परमभ्युपगच्छेत्, परं चाभ्युपगच्छन् तस्मै चाद्वैतरूपं तत्त्वं निवेदयन् पिता मे कुमारब्रह्मचारीत्यादि वदन्निव कथं नोन्मत्तः ?, स्वपराभ्य्यगमेनाद्वैतवचसो For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265