Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 222
________________ मूलं-१४० कस्यापि प्रभवति, अज्ञानत्वादेव, ततोऽप्रतिपंधादपि सिद्धं ज्ञानं श्रेयः, आह च "नाणनिसेहणहेऊ नाणं इयरं व होज्ज? जइ नाणं । अब्भुवगमम्मि तस्या कहं नु अन्नाणमो सेयं ? ।।१।। अह अन्नाणं न तयं नाणनिसेहणसमत्थमेवंपि। अप्पिडिसेहाउच्चिय संसिद्धं नाणमेवन्ति।।२।।" यदप्युक्तं-'ज्ञाने सति परस्परविवादयोगश्चित्तकालुष्यादिभाव' इति, तदप्यपरिभावितभाषितं, इह हि ज्ञानी परमार्थतः स एवोच्यते यो विवेकपूतात्मा ज्ञानगर्वमात्मानि सर्वथा न विधत्ते, यस्तु ज्ञानलवमासाद्याकण्डपीतासक इवोन्मत्तः सकलमपि जगत्तणायो मन्यते स परमार्थेनाज्ञानी वेदितव्यो, ज्ञानफलाभावात्, ज्ञानफलं हिरागादिदोषगणनिरासः,सचेन्न भवति तेहिन परमार्थतस्तत् ज्ञानं, उक्तंच "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिदिनकर किरणाग्रतः स्थातुम्?।" तत इत्थम्भूतो ज्ञानी विवेकपूतात्मा परहितकरणैकरसिको वादमपि परेषामुपकारार्थमाधत्ते, न यथाकञ्चित्, तमपि च वादं वादनिरपतिपरीक्षकेषु निपुणबुद्धिषु मध्यस्थेषु सत्सु विधत्ते, नान्येषु, तथा तीर्थकरगणधरेरनुज्ञानात्, उक्तं च "वादोऽपि वाइनरवइपरिच्छगजणेसु निउणबुद्धीस। मज्झत्थेसु य विहिणा उस्सग्गेणं अणुनाओ।।" . तत एवं स्थिते कथं नु नाम चित्तकालुष्यभावो? यद्वशात् तीव्रतीव्रतरकर्मबन्धयोगतो दीर्घदीर्घतरसंसारप्रवृत्तिः सम्भवेत्, केवलं वादिनरपतिपरीक्षकाणामज्ञानापगमतः सम्यग्ज्ञानोन्मीलनं जायते, तथा च महदुपकारि ज्ञानमिति तदेव श्रेयः। यत्पुनरुच्यते-'तीव्राध्यवसायनिष्पन्नः कर्मबन्धो दारुणविपाको भवतीति तदभ्युपगम्यते एव, न च तीव्रोऽध्यवसायो ज्ञाननिबन्धनः, अज्ञानिनोऽपि तस्य दर्शनात्, केवल ज्ञाने सति यदि कथञ्चित्कर्मदोषतोऽकार्येऽपि प्रवृत्तिरुपजायते तथापि ज्ञानवशतः प्रतिक्षणं संवेगभावतो न तीव्रः परिणामो भवति, तथाहि-यथा कञ्चित्पुरुषो राजादिदुष्टनियोगतो विपमिश्रमन्नं जानानोऽपि भयभीतमानसो भुंक्ते तथा सम्यग्ज्ञान्यपि कथञ्चित्कर्मदोषतोऽकार्यमाचरनपिसंसारदुःखभयभीतमानसः समाचरति, ननिःशङ्क, संसारभयभीतता च संवेग उच्यते, ततः संवेगशान तीव्रः परिणामो भवति, उक्तं च - "जाणंतो सविसणं पवत्तमाणोऽवि बीहए जह उi न उ इयरो तह नाणी पवत्तमाणोऽवि संविग्गो।।१।। जं संवेगपहाणो अच्वंतसुहो य होइ परिणामो। पावनिवित्ती य परा नेयं अन्नाणिणो उभयं ।।२।। ततो यदुक्तम्- 'अज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञान'मिति, तत्तेषां मृढमनस्कतासूचकमवगन्तव्यं, यदत्युक्तं--'भवेत् युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कत्तु पार्यते' इत्यादि, तदपि बालिशजल्पितं, यतो यद्यपि सर्वेऽपि दर्शननिः परस्परं भिन्नमेव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265