Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 220
________________ - मूलं-१४० २१७ स्यादमूर्त वा?, यदि मूतं ती नामान्तरेण कम्मैव प्रतिपन्न, यस्मात्तदपि कर्म पुद्गलरूपत्वात् मूर्तमनेकं चास्माकमभिप्रेतं, भवताऽपि च नियतिरूपं तत्त्वान्तरमनेकं मूर्तं चाभ्युपगम्यते इत्यावयोरविप्रतिपत्तिः, अथामूर्तमित्यभ्युपगमस्तहिं न तत्सुखदुःखनिबन्धनम्, अमृतत्वात्. न खल्वाकाशममूर्तमनुग्रहायांपघाताय वा जायते, पुद्गलानामेवानुग्रहोपघातविधानसमर्थत्वात्, "जमणुग्गहोवघाया जीवाणं पुग्गलेहितो" इति वचनात्, अथ मन्येथाः-दृष्टमाकाशमपि देशभेदेन सुखदुःखनिबन्धनं, तथाहि-मरुस्थलीप्रभृतिषु देशेषु दुखं शेषेषु तु सुखमिति, तदप्यसत्, तत्रापि तदाकाशस्थितानामेव पुद्गलानामनुग्रहोपघातकारित्वात्, तथाहि-मरुस्थलीप्रायासु भूमिषु जलविकलतया नतथाविधा धान्यसम्पत्, बालुकाकुलतया चाध्वनि प्राणिनांगमनागमनविधावतिशायी पदे २ खेदो निदाघे च खरकिरणतीव्रकरनिकरसम्पर्कतो भूयान् सन्तापो जलाभ्यवहरणमपि स्वल्पीयो महाप्रयत्नसम्पाद्यं चेति महत्तत्र दुःखं, शेपे, तद्विपर्ययात्सुखमिति तत्रापि पुद्गलानामनुग्रहोपघातकारित्वं नाकाशस्येति, अथाभावरूपमिति पक्षस्यदप्ययुक्तं, अभावस्य तुच्छरूपतया सकलशक्त्ययोगत: कार्यकारित्वायोगात्, नहि कटककुण्डलाद्यभावतः कटककुण्डलायुपजायते, तथादर्शनाभावात्, अन्यथा तत एव कटककुण्डलाधुत्पत्तेविश्वस्यादरिद्रताप्रसङ्गः, नन्विह घटाभावो मृत्पिण्डएव तस्माच्चोपजायमानो दृश्यते घटस्ततः किमिहायुक्तं?, न खलु मृत्पिण्डस्तुच्छरूपः, स्वरूपभावात, ततः कथमिव तस्य हेतुता नोपपत्तिमर्हति?, तदप्यसमीचीनं, यतो न य एव मृत्पिण्डस्य स्वरूपभावः स एवाभावो भवितुमर्हति, भावोभावविरोधात्, तथाहि यदि भावः कथमभावः? अथाभाव: कथं भाव इति?,अथोच्यत-स्वरूपापेक्षया भावरूपता पररूपापेक्षया चाभावरूपता ततो भावाभावयोभिन्नानिमित्तवत्वान्न कश्चिद्दोष इथि, नन्वेवं मृत्पिण्डस्य भावाभावात्मकत्वाभ्युपगमेऽनेकान्तात्मकमभिमन्यन्ते न भवादृशा एकान्तग्रहग्रस्तमनसः, स्यादेतत्-परिकल्पितस्तत्र पररूपाभावः स्वरूपभावस्तु तात्त्विकः ततो नानेकान्तात्मकत्वप्रसङ्गे इति, यद्येवं तहि कथं ततो मृत्पिण्डाद्घटभावः?, तत्र परमार्थतो घटप्रागभावस्याभावात्, यदि पुनः प्रागभावाभावेऽपि ततो घटो भवेत्तहि सूत्रपिण्डादेरपि कस्मान्न भवति?, प्रागभावाभावाविशेषात्, कथं वा ततो नखरविपाणमिति यत्किञ्चिदेतत्, यदप्युक्तं-यद्यदा यतो भवति कालान्तरेऽपि तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते इति, तदप्ययुक्तमेव, कारणसामग्रीशक्तिनियमत: कार्यस्य तदा तत एव तेनैव रूपेण भावसम्भवात्, ततो यदुक्तं-'अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत्, नियामकाभावादिति तद्विहि: प्लवते, कारणशक्तिरूपस्य नियामकस्य भावात्, एवं च कारणशक्तिनै यत्यतः कार्यस्य नैयत्ये कथं प्रेक्षावान् प्रमाणपथकुशलः प्रमाणोपपन्नयुक्तिवाधितां नियतिमङ्गोकुरुते?, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, एतेन यदाहुः स्वभाववादिनः-'इह सर्वे भावाः स्वभाववशादुपजायन्ते' इति, तदपि प्रतिक्षिप्तमवगन्तव्यं, उक्तरूपाणां प्रायस्तत्रापि समानत्वात्, तथाहि-स्वभावो भावरूपो वा स्यादभावरूपोवा?, भावरूपोऽप्येकरूपोऽनेकरूपो वेत्यादि सर्वं तदवस्थमेवात्रापि दूषणजालमुपढौकते, अपिच-यः स्वो भावः स्वभावः, आत्मीयो भाव इत्यर्थः, सच कार्यगतो वा हेतुर्भवेत् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265