Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
नन्दी-चूलिकासूत्रं ज्ञानं प्रतिपन्नाः तथापि यद्वचो दृष्टष्टाबाधितं पूर्वापराव्याहतं च तत्सम्यग्रूपमवसेयं, तादृग्भूतं च वचो भगवत्प्रणीतमेवेति तदेव प्रमाणं न शेपमिति, यदप्युक्तुं- 'सुगतादयोऽपि सौगतादिभिः सर्वज्ञा इष्यन्ते' इत्यादि, तदप्यसत्, दृष्टेष्टबाधितवचनतया सुगतादीनामसर्वज्ञत्वात्, यथा च दृष्टेष्टबाधितवचनता सुगतादीनां तथा प्रागेव सर्वज्ञसिद्धौ लेशतो दर्शिता, ततो भगवानेय सर्वज्ञः, उक्तं च
"सवण्णुविहाणंमिवि दिट्ठिट्ठाबाहियाउवयणाओ।
सवण्णू होइ जिनो सेसा सव्वे असव्वण्णू ।।" एतेन यदुक्तं, भवतु वा वर्द्धमानस्वामी सर्वज्ञस्तथापि तस्य सत्कोऽयमाचारादिक उपदेश इति कथं प्रतीयते?' इति, तदपि दुरापास्तं, अन्यस्येत्थम्भृतदृष्टेष्टाबाधितवचनप्रवृत्तेरसम्भवात्, यदप्यूक्तं-'भवत्वेपोऽपि निश्चयो यथाऽयमाचारादिक उपदेशो वर्द्धमानस्वामिन इति, तथापि तस्योपदेशस्यायमर्थो नान्य इति न शक्यं प्रत्येतु'मित्यादि, तदप्युक्तुं, भगवान् हि वीतरागस्ततो न विप्रतारयति, विप्रतारणाहेतरागादिदोषगणासम्भवात्, तथा सर्वज्ञत्वेन विपरीतं सम्यग् वाऽर्थमवबुध्यमानं शिप्यं जानाति ततो यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत्, न च निवारयति, न च विप्रातरयति, करोति च देशानां कृतकृत्योऽपि तीर्थकरनामकर्मोदयात्, ततो ज्ञायते एष एवास्योपदेशस्यार्थ इति, उक्तंच
"नाएऽपि तदुवएसे एसेवत्थो मउत्ति से एवं । ज्जइ पवत्तमाणं जंज निवारेइ तह चेव ॥१॥
अन्नह य पवत्तंतं निवारई न य तओ पवंचेई।
. जम्हा स वीयरागो कहणे पुण कारणं कम्मं ॥२॥" एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्यार्थनिश्चये जाते यदुक्तं-'गौतमादिरपि छद्मस्थ' इत्यादि, तदप्यसारमवसेयं, छद्मस्थस्वाप्युक्तप्रकारेण भगवदेपदेशार्थनिश्चयोपपत्तेः, तथा चित्रार्था अपि शब्दा भगवतैव समयिताः, ते च प्रकरणाद्यनुरोधेन ततदर्थप्रतिपादकाः प्रतिपादितास्ततो न कश्चिद्दोषः, तत्प्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः, भगवताऽपि च तथा तथाऽर्थावगमे प्रतिषेधाकरणादिति, एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्यावगतावाचार्यपरम्परात इदानीमपि तदर्थावगमो भवति, न चाचार्यपरम्परा न प्रमाणं, अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्यापाकर्तुमशक्यत्वात्, अपिच-भवद्दर्शनमपि किमागममूलमनागममूलं वा?, यद्यागममूलं तहि कथमाचार्यपरम्परामन्तरेण?,आगमार्थस्वावबोद्धमशक्यत्वात्, अथानागममूलं तहि न प्रमाण, उन्मत्तकविरचितदर्शनवत्, अथ यद्यपि नागममूलं तथापि युक्त्युपपन्नमितिकृत्वा समाश्रीयते, अहो ! दुरन्तः स्वदर्शनानुरागो य एवमपि पूर्वापरविरुद्धं भाषयति, अथवा भूषणमेतदज्ञानपक्षाभ्युपगमस्य यदित्थं पूर्वापरविरुद्धार्थभाषणं, कथं पूर्वापरविरुद्धाथभाषितेति चेत् ?, उच्च्यते, युक्तयो हि ज्ञानमूला भवतां चाज्ञानाभ्येपगमः ततः कथं तास्तत्र घटन्ते ? इति पूर्वापरविरुद्धाथभाषितेति यत्किञ्चिदेतद्।
येऽपि च विनयवादिनो विनयप्रतिपत्तिलक्षणास्तेऽपि मोहान्मुक्तिपथपरिभ्रष्टा: वेदितव्याः, तथाहि-विनयो नाम मुक्त्यङ्गयो मुक्तिपथानुकूलो न शेषः, मुक्तिपथश्चज्ञानदर्शनचारित्राणि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265