Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 233
________________ २३० नन्दी-चूलिकासूत्रं पेतानि, तथा त एव गोशालप्रवर्त्तिता आजीविका: पाखण्डिनस्त्रैराशिका उच्यन्ते, कस्मादिति चेदुच्यते?, इह ते सर्वं वस्तु त्र्यात्मकमिच्छन्ति, तद्यथा-जीवोऽजीवो जीवाजीवश्च, लोका अलोका लोकालोकाश्च, सदसत्सदसत, नयचिन्तायामपि त्रिविधं नयमिच्छन्ति, तद्यथा-द्रव्यास्तिकं पर्यायास्तिकमुभयास्तिकंच, ततस्त्रिभी राशिभिश्चरन्तीति स्त्रैराशिका: तन्मतेन सप्तापि परिकर्माणि उच्यन्ते, तथा चाह सूत्रकृत-'सत्त तेरासिया' इति, सप्त परिकर्माणि त्रैराशिकमतानुयायीनि, एतदुक्तं भवति-पूर्वं सूरयो नयचिन्तायां त्रैरासिकमतमवलम्बमानाः सप्तापि परिकर्माणि त्रिविधयायि नयचिन्तया चिन्तयन्ति स्मेति, सेत्तं परिकम्मे' तदेतत्परिकर्म। ___ 'से किं तं सुत्ताइ' अथ कानि सूत्राणि?, पूर्व(स)स्य पूर्वगतसूत्रार्थस्य सूचनात्सूत्राणि, तथाहि-तानि सूत्राणि सर्वद्रव्याणां सर्वपर्यायाणां सर्वनयानां सर्वभङ्गविकल्पानां प्रदर्शकानि, तथा चोक्तं चूर्णिकृता-"तानि यसुत्ताईसव्वदव्वाण सव्वपज्जवाण सव्वनयाण सव्वभंगविकप्पाण य पदंसगाणि। सव्वस्स पुव्वगयस्स सुयस्स अत्थस्स य सूयगत्ति सूयणत्ताउ(वा) सुया भणिया जहाभिहाणत्था" इति, आचार्य आह__ सूत्राणि द्वाविंशतिः प्रज्ञप्तानि, तद्यथा, ऋजुसूत्र'मित्यादि, एतान्यपि सम्प्रति सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसम्प्रदायतोवा वाच्यानि, एतानि च सूत्राणि नयविभागतो विभज्यमानानि अष्टाशीतिसङ्ख्यानि भवन्ति, कथमिति चेत्? अत आह-'इच्चेइयाई बावीसं सुत्ताई' इत्यादि, ___ इह यो नाम नयः सूत्रं छेदेन छिन्नमेवाभिप्रैति न द्वितीयेन सूत्रेण सह सम्बन्धयति यथा धम्मो मंगलमुक्किट्ठमितिश्लोकं, तथाहि-अयं श्लोकः छिनच्छेदनयमतेन व्याख्यायमानोन द्वितीयादीन् श्लोकानपेक्षते नापि द्वितीयादयः श्लोका अमुं, अयमत्राभिप्रायः-तथा कथञ्चनाप्यमुंश्लोकं पूर्वसूरयः छिनच्छेदनयमतेन व्याख्यान्ति स्म यथा न मनागपि द्वितीयादिश्लोकानामपेक्षा भवति, द्वितीयादीनपि श्लोकान् तथा व्याख्यान्ति स्म यथा न तेषां प्रथमश्लोकस्यापेक्षा, तथा सूत्राण्यपि यन्नयाभिप्रायेण परस्परंनिरपेक्षाणि व्याख्यान्ति स्म सछिनच्छेदनयः, छिनो-द्विधाकृतः पृथक्कृतः छेद:-पर्यन्तो येन सछिनच्छेदः प्रत्येकं विकल्पित-पर्यन्त इत्यर्थः, सचासौ नयश्च छिन्नच्छेदनय(:)श्च, इत्येतानि द्वाविंशतिः सूत्राणि स्वसमयसूत्र-परिपाट्यां-स्वसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्यां विवक्षितायां छिनछेदनयिकानि, अत्र 'अतोऽनेकखरा'दिति मत्वर्थीय इकप्रत्ययः, ततोऽयमर्थ:-छित्रच्छेदनयवन्ति द्रष्टव्यानि, तथा 'इच्चेइयाई' इत्यादि, इत्येतानि द्वाविंशतिः सूत्राणि आझीविकसूत्रपरिपाट्य-गोशाल-प्रवर्तिताजीविकपाखण्डिमतेन सूत्रपरिपाट्य विवक्षितायामच्छिन्नच्छेदनयिकानी, इयमत्र भावना___ अच्छिनच्छेदनयो नाम यः सूत्रं सूत्रान्तरेण सहाच्छिन्नमर्थतः सम्बद्धमभिप्रैति, यथा धम्मो मंगलमुक्किट्ठमिति श्लोकं, तथाहि-अयं श्लोकोऽच्छिनच्छेदनयमतेन व्याख्यायमानो द्वितीयादीन् श्लोकानपेक्षते द्वितीयादयोऽपिश्लोका एनं श्लोकं, एवमेतान्यपि द्वाविंशतिः सूत्राणि अक्षररचनामधिकृत्य परस्परं सूत्राणां सम्बन्धासम्बन्धावधिकृत्य भेदो दर्शितः, सम्प्रत्यन्यथा नयविभागमधिकृत्य भेदं दर्शयति-'इच्चेइयाई' इत्यादि, इत्येतानिद्वाविंशतिः सूत्राणि त्रैराशिकसूत्रपरिपाट्यां-त्रैराशिकनयमतेन सूत्रपरिपाट्यां विवक्षितायांत्रकनयिकानि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265