Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 232
________________ मूलं-१५२ मू.(१५२) बारस इक्कारसमे बारसमे तेरसेवे वत्थूणि। तीसा पुण तेरसमे चोद्दसमे पण्णवीसाओ। मू.(१५३) चत्तारि१ दुवालस २ अट्ठ३ चेव दस४ चेव चुल्लवत्थूणि। __आइल्लाण चउण्हं सेसाणं चूलिआ नत्थि।। वृ.'से कि त'मित्यादि, अथ कोऽयं दृष्टिवादः?, दृष्टयो-दर्शनानि वंदन वाद: दृष्टीनां वादो दृष्टिवादः, अथवा पतनं पातो दृष्टीनां पातो यत्र स दृष्टिपातः, तथाहि-तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः दिट्ठिवाए ण'मित्यादि, दृष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिवाजे दृष्टिपाते 'ण'मिति वाक्यालङ्कारे सर्वभावप्रपणा आख्यायते, 'से सभासतो पंचविहे पन्नते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिना तथापि लेशतो यथाऽऽगतसम्प्रदायं किञ्चिद्याख्यायते, स दृष्टिवादो दृष्टिपातो वा समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा-परिकर्म १ सूत्राणि २ पूर्वगतं ३ अनुयोग ४ श्चूलिका ५, ___ तत्र परिकर्म नाम योग्यतापादनं तद्येतुः शास्त्रमपि परिकर्म, किमुक्तं भवति?-सूत्रादिपूर्वगतानुयोगसूत्रार्थग्रहण-योग्यतासम्पादनसमर्थानि परिकर्माणि, यथा गणितशास्त्रे सङ्कलनादीन्याद्यानि षोडश परिकर्माणि शेषगणितसूत्रार्थग्रहणे योग्यत्तासम्पादनसमर्थानि, तथाहि-यथा गणितशास्त्रे गणितशास्त्रगताद्यषोडशपरिकर्मगृहीतसूर्तार्थः सन् शेषगणितसूत्रार्थग्रहणयोग्यो भवति, नान्यथा, तथा गृहीतविवक्षितपरिकर्मसूत्रार्थः सन् शेषसूत्रादिरूपपिष्टवादश्रुतग्रहणयोग्यो भवति, नेतरथा, तथा चोक्तंचूण्रें-"परिकर्मेति योग्यताकरणं, तहगणियस्ससोलस परिकम्मा, तग्गहियसुत्तत्थो सेसगणियस्स जोग्गो भवइ, एवं गहियपरिकम्मसुत्तत्थो सेससुत्ताइदिट्ठिवायस्स जोग्गो भवइ"त्ति। तच्च परिकर्मसिद्धश्रेणिकापरिकर्मदिमूलभेदापेक्षया सप्तविधं, मातृकापदाद्युत्तरभेदा-पेक्षयात्र्यशीतिविधं, तच्च समूलोत्तरभेदं सकलमपि सूत्रताऽर्थतश्च व्यवच्छिन्नां, यथागतसम्प्रदायतो वावाच्यं, एतेषांचसिद्धश्रेणिकापरिकर्मादीनां सप्तानां परिकर्मणामाद्यानिषट्परिकर्माणिस्वसमयवक्तव्यतानुगतानि स्वसिद्धान्तप्रकाशकानीत्यर्थः, ये तुगोशालप्रवर्तिता आजीविका: पापंडिनस्तन्मतेन च्युताच्युतश्रेणिका षट्परिकर्मसहि(ता)तानि सप्तापिपरिकर्माणि प्रज्ञाप्यन्ते, सम्प्रत्येष्वेव परिकर्मसु नयचिन्ता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विघा-सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स सङ्ग्रहं प्रविष्टो यस.तु विशेषग्राही स व्यवहारं, आह च भाष्यकृत् जो सामनगाही स नेगमो संगहंगओ अहवा। इयरो ववहारमिओ जो तेण समाणनिद्देसो।। शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते, तत एवं चत्वार एव नयाः, एतैश्चतुर्भिनयैराद्यानि षट्परिकर्माणि स्वसभयवक्तव्यतया परिचिन्त्यन्ते, तथा चाह चूर्णिकृत्-"इयाणि परिकम्मे नचिंता, नेगमो दुविहो-संगहिओ असंगहिओ य, तत्थ संगहिओ संगहं पविट्ठो असंगहिओ ववहारं, तम्हा संगहो ववहारो उज्जुसुओ सद्दाइया य एको, एवं चउरो नया, एएहि चउहि नएहिं छ ससमइगा परिकम्मा चितिज्जंति" तथा चाह सूत्रकृत्-छ'चउक्कनइयाई'ति आद्यानि षट्परिकर्माणि चतुर्नयिकानि-चतुर्नयो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265