________________
मूलं-१५२ मू.(१५२) बारस इक्कारसमे बारसमे तेरसेवे वत्थूणि।
तीसा पुण तेरसमे चोद्दसमे पण्णवीसाओ। मू.(१५३) चत्तारि१ दुवालस २ अट्ठ३ चेव दस४ चेव चुल्लवत्थूणि।
__आइल्लाण चउण्हं सेसाणं चूलिआ नत्थि।। वृ.'से कि त'मित्यादि, अथ कोऽयं दृष्टिवादः?, दृष्टयो-दर्शनानि वंदन वाद: दृष्टीनां वादो दृष्टिवादः, अथवा पतनं पातो दृष्टीनां पातो यत्र स दृष्टिपातः, तथाहि-तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः दिट्ठिवाए ण'मित्यादि, दृष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिवाजे दृष्टिपाते 'ण'मिति वाक्यालङ्कारे सर्वभावप्रपणा आख्यायते, 'से सभासतो पंचविहे पन्नते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिना तथापि लेशतो यथाऽऽगतसम्प्रदायं किञ्चिद्याख्यायते, स दृष्टिवादो दृष्टिपातो वा समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा-परिकर्म १ सूत्राणि २ पूर्वगतं ३ अनुयोग ४ श्चूलिका ५, ___ तत्र परिकर्म नाम योग्यतापादनं तद्येतुः शास्त्रमपि परिकर्म, किमुक्तं भवति?-सूत्रादिपूर्वगतानुयोगसूत्रार्थग्रहण-योग्यतासम्पादनसमर्थानि परिकर्माणि, यथा गणितशास्त्रे सङ्कलनादीन्याद्यानि षोडश परिकर्माणि शेषगणितसूत्रार्थग्रहणे योग्यत्तासम्पादनसमर्थानि, तथाहि-यथा गणितशास्त्रे गणितशास्त्रगताद्यषोडशपरिकर्मगृहीतसूर्तार्थः सन् शेषगणितसूत्रार्थग्रहणयोग्यो भवति, नान्यथा, तथा गृहीतविवक्षितपरिकर्मसूत्रार्थः सन् शेषसूत्रादिरूपपिष्टवादश्रुतग्रहणयोग्यो भवति, नेतरथा, तथा चोक्तंचूण्रें-"परिकर्मेति योग्यताकरणं, तहगणियस्ससोलस परिकम्मा, तग्गहियसुत्तत्थो सेसगणियस्स जोग्गो भवइ, एवं गहियपरिकम्मसुत्तत्थो सेससुत्ताइदिट्ठिवायस्स जोग्गो भवइ"त्ति।
तच्च परिकर्मसिद्धश्रेणिकापरिकर्मदिमूलभेदापेक्षया सप्तविधं, मातृकापदाद्युत्तरभेदा-पेक्षयात्र्यशीतिविधं, तच्च समूलोत्तरभेदं सकलमपि सूत्रताऽर्थतश्च व्यवच्छिन्नां, यथागतसम्प्रदायतो वावाच्यं, एतेषांचसिद्धश्रेणिकापरिकर्मादीनां सप्तानां परिकर्मणामाद्यानिषट्परिकर्माणिस्वसमयवक्तव्यतानुगतानि स्वसिद्धान्तप्रकाशकानीत्यर्थः, ये तुगोशालप्रवर्तिता आजीविका: पापंडिनस्तन्मतेन च्युताच्युतश्रेणिका षट्परिकर्मसहि(ता)तानि सप्तापिपरिकर्माणि प्रज्ञाप्यन्ते, सम्प्रत्येष्वेव परिकर्मसु नयचिन्ता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विघा-सामान्यग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स सङ्ग्रहं प्रविष्टो यस.तु विशेषग्राही स व्यवहारं, आह च भाष्यकृत्
जो सामनगाही स नेगमो संगहंगओ अहवा।
इयरो ववहारमिओ जो तेण समाणनिद्देसो।। शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते, तत एवं चत्वार एव नयाः, एतैश्चतुर्भिनयैराद्यानि षट्परिकर्माणि स्वसभयवक्तव्यतया परिचिन्त्यन्ते, तथा चाह चूर्णिकृत्-"इयाणि परिकम्मे नचिंता, नेगमो दुविहो-संगहिओ असंगहिओ य, तत्थ संगहिओ संगहं पविट्ठो असंगहिओ ववहारं, तम्हा संगहो ववहारो उज्जुसुओ सद्दाइया य एको, एवं चउरो नया, एएहि चउहि नएहिं छ ससमइगा परिकम्मा चितिज्जंति" तथा चाह सूत्रकृत्-छ'चउक्कनइयाई'ति आद्यानि षट्परिकर्माणि चतुर्नयिकानि-चतुर्नयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org