Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२३४
नन्दी-चूलिकासूत्रं ततो भूयश्चतुर्दश लक्षा नरपतीनां निरन्तरं निर्वाणे ततो द्वौ सर्वार्थसिद्धे, तत: पुनरपि चतुर्दश लक्षा निरन्तरं निर्वाणे ततो भुयोऽपि द्वौ सर्वार्थसिद्धे, ततः पुनरपि चतुर्दश लक्षा निरन्तरं निर्वाणे ततो भुयोऽपि द्वौ सर्वार्थसिद्धे, एवं चतुर्दश २ लक्षान्तरितौ द्वौ २ सर्वार्थसिद्धे तावद्वक्तव्यौ यावत्तेऽपि द्विक २ सङ्ख्यया असङ्ख्यया भवन्ति, एवं त्रिक र सङ्ख्यादयोऽपि प्रत्येकमसङ्ख्येयास्तावद्वक्तव्यां यावनिरन्तरं चतुर्दश लक्षा निर्वाणे ततः पञ्चाशत्सर्वार्थसिद्धे ततो भुयोऽपि चतुर्दश लक्षा निरन्तरं निर्वाणे ततः पुनरपि पञ्चाशत्सर्वार्थसिद्धे, पञ्चाशत्सङ्ख्याका अपि चतुर्दश २ लक्षान्तरितास्तावद्वक्तव्या यावत्तेऽप्यसङ्ख्यया भवन्ति, उक्तंच-.
"चोद्दस लक्खा सिद्धा निवईणेक्को य होइ सव्वट्टे । ___ एवेक्कक्के ठाणे पुरिसजुगा होंतिऽसंकेज्जा ।। पुनरवि चोद्दस लक्खा सिद्धा निवईण दोवि सव्वतु।
दुगठाणेऽवि असंखा पुरिसजुगाहोंति नायव्वा ।। जाव य लक्खा लक्खा चोद्दस सिद्धा पन्नास होंति सव्वढे!
पन्नासट्ठाणेवि उ पुरिसजुगा होंतिऽसंखेज्जा ।। एगुत्तरा उठाणा सव्वटे चेव जाव पन्नासा।
एक्केकंतरठाणे पुरिसजुगा होतिऽसंखेज्जा। ततोऽनन्तरं चतुर्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धे एकः सिद्धौ, भूयः चतुर्दश लक्षाः सर्वार्थ एक: सिद्धौः, एवं चतुर्दशचतुर्दशलक्षान्तरित एकैक:सिद्धौ तावद्वक्तव्यो यावत्तेऽप्येकका असङ्ख्यया भवन्ति, ततो भूयोऽपि चतुर्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धौ, ततो द्वौ निर्वाणे, तत: पुनरपि चतुर्दश लक्षा: सर्वार्थसिद्धे ततो भूयोऽपि द्वौ निर्वाणे एवं चतुर्दशलक्षान्तरितौ २ द्वौ २ निर्वाणे तावद्वक्तव्यौ यावत्तेऽपि द्विकसङ्ख्यया असङ्ख्यया भवन्ति, एवं त्रिक २ सङ्ख्यादयोऽपि यावत्पञ्चाशत्सङ्ख्याश्चतुर्दशचतुर्दशलक्षान्तरिता: सिद्धौ प्रत्येकमसङ्ख्येया वक्तव्याः, उक्तं च
___ "विवरीयं सवढे चोद्दसलक्खा उनिव्वुओ एगो।
सव्वे य परिवाडी पन्नासा जाव सिद्धीए॥ ततः परं वे लक्षे नरपतीनां निरन्तरं निर्वाणे, ततो वे लक्षे निरन्तरं सर्वार्थसिद्धौ, ततस्तिस्रो लक्षा निर्वाणे, ततो भूयोऽपि तिस्रो लक्षा: सर्वार्थसिद्धे, ततश्चतस्रो लक्षा निर्वाणे, ततः पुनरपि चतस्रो लक्षाः सर्वार्थसिद्धे, एवं पञ्च पञ्च षट् २ यावदुभयत्राप्यसङ्ख्येया लक्षा वक्तव्याः,
"तेन परंदुलक्खाइंदो दो ठाणा य समग वच्चंति।
सिवगइसव्वतुहिं इणमो तेसि विही होई।। दो लक्खा सिद्धीए दो लक्खा रवईण सव्वतु।
एवं तिलक्ख चउपंच जाव लक्खा असंखेज्जा ।। ततः परं चतस्रिश्चित्रान्तरगण्डिकाः, तद्यथा-प्रथमा एकादिका एकोत्तरा द्वितीया एखादिका द्युत्तरा, तृतीया एकादिका व्युत्तरा, चतुर्थी त्र्यादिका द्वयादिविषमोत्तरा, आह च
"सिवगइसव्वद्वेहिं चित्तंतरगंडिया तओ चउरो। एगो एगुत्तरिया एगाइ बिउत्तरा बिइया ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265