Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मूलं-१५४
२३३ दिट्ठिवायस्स नं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ पडिवत्तीओ संखेज्जाओ निजुत्तीओ संखेज्जाओ संगहणीओ,
से णं अंगट्टयाए बारसमे अंगे एगे सुअवधे चोद्दस पुयाई संखेज्जा वत्थू संखेज्जा चूलवत्थू संखेज्जा पाहुडा संखेज्जा पाहुडपाहुडा संखेज्जाओ पाहुडिआओ संखेज्जाओ पाहुडपाहुडिआओ संखेज्जाइं पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जावा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविज्जति पन्नविज्जति परूविज्जति दंसिर्जति निदसिज्जति उवदसिजति
से एवं आया एवं नाया एवं विनाया एवं चरणकरणपरूवणा आधविज्जति, सेतं दिविवाए १२॥
वृ.'सेत्तं पुव्वगए' तदेवत्पूर्वगतं। से किं तमित्यादि, अथकोऽयमनुयोगः? अनुरूपोऽनुकूलो वा योगोऽनुयोग: सूत्रस्य खेनाभिधेयेन सार्द्धमनुरूप: सम्बन्धः, सच द्विघामूलप्रथमानुयोगो गण्डिकानुयोगश्च, इह मूलं-धर्मप्रणयनात्तीर्थकरास्तेषां प्रथमः-सम्यक्त्वावासिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, इक्ष्वादीनां पूर्वापरपूर्वपरिच्छिनोमध्यभागो गण्डिका हण्डिकेव गण्डिका-एकार्थाधिकारा ग्रन्थपद्धतिरित्यर्थः, तस्या अनुयोगो-गण्डिकानुयोगः
‘से किं त'मित्यादि, अथ कोऽयं मूलप्रथमानुयोगः ? आचार्य आह-मूलप्रथमानुयोगेन अथवा मूलप्रथमानुयोगे 'ण'मिति वाक्यालङ्कारे अर्हतां भगवतां सम्यक्त्वाभवादारभ्य पूर्वभवा देवलोकगमनानि तेषु पूर्वभवेषु देवभवेषुचायुर्देवलोकेभ्यश्च्यवनं तीर्थकरभवत्वेनोत्पादस्ततो जन्मानि ततः शैलराजे सुरासुरैर्विधीयमाना अभिषेका इत्यादि पाठसिद्धं यावनिगमनं
'से किं तमित्यादि, अथ कोऽयं गण्डिकानुयोगः?, सूरिराह-गण्डिकानुयोगेन अथवा गण्डिकानुयोगे 'ण'मिति वाक्यालङ्कारे, कुलकरगण्डिकाः, इहसर्वत्राप्यपान्तरालवतिन्यो बह्वयः प्रतिनियतैकार्थाधिकाररूपा गण्डिकास्ततो बहुवचनं, कुलकराणां गण्डिकाः कुलकरगण्डिकाः, तत्र कुलकरणां विमलवाहनादीना पूर्वभवजन्मानामादीनि सपप्रञ्चमुपवर्ण्यन्ते, एवं तीर्थकरगण्डिकादिष्वभिदानवशतो भावनीयं, 'जावचित्तंतरगण्डिआउ'त्ति चित्रा-अनेकार्था अन्तरेऋषभाजिततीर्थकरापान्तराले गण्डिका: चित्रान्तरगण्डिकाः, एतदुक्तं भवति-ऋषभाजिततीर्थकरान्तरे ऋषभवंशसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपातप्राप्तिप्रतिपादिका गण्डिकाश्चित्रान्तरगण्डिकाः, तासां च प्ररूपणा पूर्वाचायैरेवमकारि--इह सुबुद्धिनामा सगरचक्रवर्त्तिनो महामात्योऽष्टापदपर्वते सगरचक्रवर्तिसुतेभ्य आदित्ययशःप्रभृतीना भगवदृषभवंराजानां भूपतीनामेवं सङ्ख्यामाख्यातुमुपक्रमते स्म, आह च
'आइच्चजसाईणं उसभस्स परंपरा नरवईणं ।
सगरसुयाण सुबुद्धी इणमो संखं परिकहेइ। आदित्ययशःप्रभृतयो भगवन्नाभेयवंशजास्त्रिखण्डभरतार्द्धमनुपाल्य पर्यन्ते पारमेश्वरों दीक्षामभिंगृह्य तत्प्रभावत: सकलकर्मक्षयं कृत्वा चतुर्दश लक्षा निरन्तरंसिद्धमगमन्, तत एकः सर्वार्थसिद्धो, ततो भूयोऽपि चतुर्दश लक्षा निरन्तरंनिर्वाणे, ततोऽप्येक: सर्वार्थसिद्धे महाविमाने, एवं चतुर्दश लक्षान्तरितः सर्वार्थसिद्धावेकैकस्तावद्वक्तव्यो यावत्तेऽप्येकका असङ्ख्यया भवन्ति, For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265