Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 238
________________ मूलं - १५४ गाइतिउत्तराए गाइ विसमुत्तरा चउत्थी उ।" प्रथमा भाव्यतेप्रथममेकः सिद्धौ ततो द्वौ सर्वार्थसिद्धे ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वार्थे ततः पञ्च सिद्धौ ततः पट् सर्वार्थ एवमेकोत्तराया वृद्धा शिवगतौ सर्वार्थे च तावद्वक्तव्याः यावदुभयत्राप्यसङ्ख्येया भवन्ति, उक्तं च "पढमाए सिद्धेको दोत्रि उ सव्वट्ठसिद्धंभि ।। तत्तो तिन्नि नरिंदा सिद्धा चत्तारि होंति सव्वट्टे । इय जाव असंखेज्जा सिवगइसव्वसिद्धेहिं ॥ सम्प्रति द्वितीया भाव्यते, ततः उर्ध्वमेकः सिद्धौ त्रयः सर्वार्थे ततः पञ्च सिद्धौ सप्त सर्वार्थ ततो नव सिद्धौ एकादश सर्वार्थे ततः त्रयोदश सिद्धौ पञ्चदश सर्वार्थे एवं द्व्युत्तरया वृद्धा शिवगतौ सर्वार्थे च तावद्वक्तव्यौ यावदुभयंत्रापसङ्ख्येया भवन्ति, उक्तं च "ताहे दिउत्तराए सिद्धेक्को तिन्नि होंति सव्वट्टे । एवं पंच य सत्त य जाव असंखेज्ज दोण्णिवि ॥ २३५ सम्प्रति तृतीया भाव्यते, ततः परमेकः सिद्धौ चत्वारः सर्वार्थे ततः सप्त सिद्धौ दश सर्वार्थे, ततत्रयोदश सिद्धौ षोडश सर्वार्थे एवं त्र्युत्तरया वृद्धा शिवगतौ सर्वार्थे च क्रमेण तावदवसेयं यावदुभयत्राप्यसङ्ख्या गता भवन्ति, उक्तं च "एगं चउ सत्त दसगं जाव असंखेज्ज होंति ते दोवि । सिवगयसव्वद्वेहिं तिउत्तराए उनायव्वा ॥ सम्प्रति चतुर्थी भाव्यते, सा च विचित्रा, ततस्तस्याः परिज्ञानार्थमयमुपायः पूर्वोचार्येर्दर्शितः, इह एकोनत्रिंशत्सङ्ख्यास्त्रिका ऊर्ध्वाधः परिपाट्य पट्टिकादौ स्थाप्यन्ते तत्र प्रथमे त्रिके न किञ्चिदपि प्रक्षिप्यते, द्वितीये द्वौ प्रक्षिप्येते तृतीये पञ्च चतुर्थे नव पञ्चमे त्रयोदश षष्ठे सप्तदश सप्तमे द्वाविंशतिः अष्टमे षट् नवमे अष्टौ दशमे द्वादश एकादशे चतुर्द्दश द्वादशोऽष्टाविंशतिः त्रयोदशे षड्विशति: चतुर्द्दशे पञ्चविंशतिः पञ्चदेशे एकादश षोडशे त्रयोविंशतिः सप्तदशे सप्तचत्वारिंशत् अष्टादशे सप्ततिः एकोनविंशे सप्तसप्ततिः विंशतौ एक: एकविंशे द्वौ द्वाविंशे सप्ताशीतिः त्रयोविंशे एकसप्ततिः चतुर्विशे द्विषष्टिः पञ्चविशे एकोनसप्ततिः षड्व चतुर्विंशतिः सप्तर्विशे षट्चत्वारिंशत् अष्टाविंशे शतं एकोनत्रिंशे षड्विंशतिः, उक्तं च 66 " [ताहे] तियगाइविसमुत्तराए अउणतीसं तु तियग ठावेउं । पढमे नथि उखेवो सेसेसु इमो भवे खेवो ॥ दुग पण नवगं तेरस सत्तरस दुवीसं च छच्च अद्वेव । बारस चउदस तह अट्ठवीस छव्वीस पणुवीसा ॥ एक्कारस तेवीसा सीयाला सतरि सत्तहत्तरिया । इग दुग सत्तासीई एगुत्तरमेव बावट्ठी ॥ अउणत्तरि चउवीसा छायाल सयं तहेव छव्वीसा । एए सिक्खेगातिगअंतंता जहाकमंसो ॥ एतेषु च राशिषु प्रक्षिप्तेषु यद्भवति तावन्तस्तावन्तः क्रमेण सिद्दो सर्वार्थे विंशतिः ततः For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265