Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 221
________________ २१८ नन्दी - चूलिकासूत्रं कारणगतो वा ?, न तावत्कार्यगता, यतः कार्ये परिनिष्पन्ने सति स कार्यगतः स्वभावो भविष्यति, नानिष्पत्रे, निष्पन्ने च कार्ये कथं स तस्य हेतुः ? यो हि यस्यालब्धलाभसम्पादनाय प्रभवति स तस्य हेतु:, कार्यं च परिनिष्पन्नतया लब्धात्मलाभं, अन्यथा तस्यैव स्वभावस्या भावप्रसङ्गात्. ततः कथं च कार्यस्य हेतुर्भवति ?, कारणगतस्तु स्वभाव: कार्यस्य हेतुरस्माकमपि सम्मतः, स च प्रतिकारणं विभिन्नस्तेन मृदः कुम्भो भवति न पटादि:, मृदः पटादिकरणस्वभावाभावात्, तन्तुभ्यो ऽपि पट एव भवति न घटादिः, तन्तूनां घटादिकरणे स्वभावाभावात्, ततो यदुच्यते'मृदः कुम्भो भवति न पटादि' रित्यादि तत्सर्वं कारणगतस्वभावाभ्युपगमे सिद्धसाध्यतामध्यमध्यासीनमिति न तो बाधामादधाति यदपि चोक्तम्- ' आस्तामन्यत्वार्यजात' मित्यादि, तदपि कारणगतस्वभावाङ्गीकारेण समीचीनमेवावसेयं, तथाहि ते कङ्कटुकमुद्गाः स्वकारण-वशतस्तथारूपा एव जातो ये स्थालीन्धनकालादिसामग्रीसम्पर्के ऽपि न पाकमश्नुवते इति, स्वभावश्च कारणादिभिन्न इति सर्व सकारणमेवेति स्थितम्, उक्तं च "कारणगओ उ हेऊ केन व निट्ठोत्ति निययकज्जस्स ? | न यसो तओ विभिन्नो सकारणं सव्वमेव तओ ॥ -- यदपि च यदृच्छावादिनः प्रलपन्ति - 'न खलु प्रतिनियतो वस्तूनां कार्यकारणभाव' इत्यादि तदपि च कार्याकार्यादिविवेचनपटीया: शेमुषीविकलतासूचकमवगन्तव्यं, कार्यकारणभावस्य प्रतिनियततया सम्भवात्, तथाहि--य: शालूकांदुपजायते शालूकः स सदैव शालूकादेव न गोमयादपि, योऽपि च गोमयादुपजायते शालूकः सोऽपि सदैव गोमयादेव न शालूकादपि, न चानयोरेकरूपता, शक्तिवर्णादिवैचित्र्यतः परस्परं जात्यन्तरत्वात्, योऽपि च वह्नेरुपजायते वह्निः सोऽपि सदैव वहेरेव नारणिकाष्टादपि, योऽपि चारणिकाष्ठादुपजायते सोऽपि सर्वदाऽरण- काष्ठादेव न वह्नेरपि, यदपि चोक्तं- 'बीजादपि जायते कदली' त्यादि, तत्रापि परस्परं विभिन्नत्वात् एतदेवोत्तरम्, अपिच-या कन्दादुपजायते कदली साऽपि परमार्थतो बीजादेव वेदितव्या, परम्परया बीजस्यैव कारणत्वात् एवं वादयोऽपि शाखैकदेशादुपजायमानाः परमार्थतो बीजादवगन्तव्या:, तथाहिशाखातः शाखा प्रभवति, न च शाखा शाखाहेतुका लोके व्यवहियते, बटबीजस्यैव सकलशाखादिसमुदायरूपवटहेतुत्वेन प्रसिद्धत्वात्, एवं शाखैकदेशादपि जायमानो वटः परमार्थतो मूलवटप्रशाखारूप इति मूलवटबीजहेतुक एव सोऽपि वेदितव्यः, तस्मान्न क्वचिदपि कारण-कार्यव्यभिचार:, निपुणविचारप्रवीणेन च प्रतिपत्रा भवितव्यं, ततो न कश्चिद्दोषः, एवं च यदुच्यते‘न खल्यन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिल्केशयन्ती' ति, तद्वाङ्मात्रमिति स्थितं, येsपि चाज्ञानवादिनो 'न ज्ञानं श्रेयः, तस्मिन् सति परस्परं विवादयोगतश्चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्ते 'रित्याद्युक्तवन्तः तेऽप्यज्ञानमहानिद्रोप्लुतमनस्कतया यत्किञ्चिद्भाषितवन्तो वेदितव्याः, तथाहि - आस्तमामन्यद् एतावदेव वयं पृच्छामः - ज्ञाननिषेधकं ज्ञानं वा स्यादज्ञानं वा ?, तत्र यदि ज्ञानं ततः कथमभाषिष्ट - अज्ञानमेव श्रेयो ?, नन्वेवं ज्ञानं श्रेयस्तामाचनीस्कन्द्यते, तदन्तरेणाज्ञानस्य प्रतिष्ठापयितुमशक्यत्वात्, तथा च प्रतिज्ञाव्याघातप्रसङ्गः, अथाज्ञानमिति पक्षः सोऽप्युक्तः, अज्ञानस्य ज्ञाननिषेधनसामर्थ्यायोगात्, न खलु अज्ञानं साधनाय वाधनाय वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265