________________
२१८
नन्दी - चूलिकासूत्रं कारणगतो वा ?, न तावत्कार्यगता, यतः कार्ये परिनिष्पन्ने सति स कार्यगतः स्वभावो भविष्यति, नानिष्पत्रे, निष्पन्ने च कार्ये कथं स तस्य हेतुः ? यो हि यस्यालब्धलाभसम्पादनाय प्रभवति स तस्य हेतु:, कार्यं च परिनिष्पन्नतया लब्धात्मलाभं, अन्यथा तस्यैव स्वभावस्या भावप्रसङ्गात्. ततः कथं च कार्यस्य हेतुर्भवति ?, कारणगतस्तु स्वभाव: कार्यस्य हेतुरस्माकमपि सम्मतः, स च प्रतिकारणं विभिन्नस्तेन मृदः कुम्भो भवति न पटादि:, मृदः पटादिकरणस्वभावाभावात्, तन्तुभ्यो ऽपि पट एव भवति न घटादिः, तन्तूनां घटादिकरणे स्वभावाभावात्, ततो यदुच्यते'मृदः कुम्भो भवति न पटादि' रित्यादि तत्सर्वं कारणगतस्वभावाभ्युपगमे सिद्धसाध्यतामध्यमध्यासीनमिति न तो बाधामादधाति यदपि चोक्तम्- ' आस्तामन्यत्वार्यजात' मित्यादि, तदपि कारणगतस्वभावाङ्गीकारेण समीचीनमेवावसेयं, तथाहि ते कङ्कटुकमुद्गाः स्वकारण-वशतस्तथारूपा एव जातो ये स्थालीन्धनकालादिसामग्रीसम्पर्के ऽपि न पाकमश्नुवते इति, स्वभावश्च कारणादिभिन्न इति सर्व सकारणमेवेति स्थितम्, उक्तं च
"कारणगओ उ हेऊ केन व निट्ठोत्ति निययकज्जस्स ? |
न यसो तओ विभिन्नो सकारणं सव्वमेव तओ ॥
--
यदपि च यदृच्छावादिनः प्रलपन्ति - 'न खलु प्रतिनियतो वस्तूनां कार्यकारणभाव' इत्यादि तदपि च कार्याकार्यादिविवेचनपटीया: शेमुषीविकलतासूचकमवगन्तव्यं, कार्यकारणभावस्य प्रतिनियततया सम्भवात्, तथाहि--य: शालूकांदुपजायते शालूकः स सदैव शालूकादेव न गोमयादपि, योऽपि च गोमयादुपजायते शालूकः सोऽपि सदैव गोमयादेव न शालूकादपि, न चानयोरेकरूपता, शक्तिवर्णादिवैचित्र्यतः परस्परं जात्यन्तरत्वात्, योऽपि च वह्नेरुपजायते वह्निः सोऽपि सदैव वहेरेव नारणिकाष्टादपि, योऽपि चारणिकाष्ठादुपजायते सोऽपि सर्वदाऽरण- काष्ठादेव न वह्नेरपि, यदपि चोक्तं- 'बीजादपि जायते कदली' त्यादि, तत्रापि परस्परं विभिन्नत्वात् एतदेवोत्तरम्, अपिच-या कन्दादुपजायते कदली साऽपि परमार्थतो बीजादेव वेदितव्या, परम्परया बीजस्यैव कारणत्वात् एवं वादयोऽपि शाखैकदेशादुपजायमानाः परमार्थतो बीजादवगन्तव्या:, तथाहिशाखातः शाखा प्रभवति, न च शाखा शाखाहेतुका लोके व्यवहियते, बटबीजस्यैव सकलशाखादिसमुदायरूपवटहेतुत्वेन प्रसिद्धत्वात्, एवं शाखैकदेशादपि जायमानो वटः परमार्थतो मूलवटप्रशाखारूप इति मूलवटबीजहेतुक एव सोऽपि वेदितव्यः, तस्मान्न क्वचिदपि कारण-कार्यव्यभिचार:, निपुणविचारप्रवीणेन च प्रतिपत्रा भवितव्यं, ततो न कश्चिद्दोषः, एवं च यदुच्यते‘न खल्यन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिल्केशयन्ती' ति, तद्वाङ्मात्रमिति स्थितं,
येsपि चाज्ञानवादिनो 'न ज्ञानं श्रेयः, तस्मिन् सति परस्परं विवादयोगतश्चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्ते 'रित्याद्युक्तवन्तः तेऽप्यज्ञानमहानिद्रोप्लुतमनस्कतया यत्किञ्चिद्भाषितवन्तो वेदितव्याः, तथाहि - आस्तमामन्यद् एतावदेव वयं पृच्छामः - ज्ञाननिषेधकं ज्ञानं वा स्यादज्ञानं वा ?, तत्र यदि ज्ञानं ततः कथमभाषिष्ट - अज्ञानमेव श्रेयो ?, नन्वेवं ज्ञानं श्रेयस्तामाचनीस्कन्द्यते, तदन्तरेणाज्ञानस्य प्रतिष्ठापयितुमशक्यत्वात्, तथा च प्रतिज्ञाव्याघातप्रसङ्गः, अथाज्ञानमिति पक्षः सोऽप्युक्तः, अज्ञानस्य ज्ञाननिषेधनसामर्थ्यायोगात्, न खलु अज्ञानं साधनाय वाधनाय वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org