________________
मूलं-१४० कस्यापि प्रभवति, अज्ञानत्वादेव, ततोऽप्रतिपंधादपि सिद्धं ज्ञानं श्रेयः, आह च
"नाणनिसेहणहेऊ नाणं इयरं व होज्ज? जइ नाणं । अब्भुवगमम्मि तस्या कहं नु अन्नाणमो सेयं ? ।।१।।
अह अन्नाणं न तयं नाणनिसेहणसमत्थमेवंपि।
अप्पिडिसेहाउच्चिय संसिद्धं नाणमेवन्ति।।२।।" यदप्युक्तं-'ज्ञाने सति परस्परविवादयोगश्चित्तकालुष्यादिभाव' इति, तदप्यपरिभावितभाषितं, इह हि ज्ञानी परमार्थतः स एवोच्यते यो विवेकपूतात्मा ज्ञानगर्वमात्मानि सर्वथा न विधत्ते, यस्तु ज्ञानलवमासाद्याकण्डपीतासक इवोन्मत्तः सकलमपि जगत्तणायो मन्यते स परमार्थेनाज्ञानी वेदितव्यो, ज्ञानफलाभावात्, ज्ञानफलं हिरागादिदोषगणनिरासः,सचेन्न भवति तेहिन परमार्थतस्तत् ज्ञानं, उक्तंच
"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः।
तमसः कुतोऽस्ति शक्तिदिनकर किरणाग्रतः स्थातुम्?।" तत इत्थम्भूतो ज्ञानी विवेकपूतात्मा परहितकरणैकरसिको वादमपि परेषामुपकारार्थमाधत्ते, न यथाकञ्चित्, तमपि च वादं वादनिरपतिपरीक्षकेषु निपुणबुद्धिषु मध्यस्थेषु सत्सु विधत्ते, नान्येषु, तथा तीर्थकरगणधरेरनुज्ञानात्, उक्तं च
"वादोऽपि वाइनरवइपरिच्छगजणेसु निउणबुद्धीस।
मज्झत्थेसु य विहिणा उस्सग्गेणं अणुनाओ।।" . तत एवं स्थिते कथं नु नाम चित्तकालुष्यभावो? यद्वशात् तीव्रतीव्रतरकर्मबन्धयोगतो दीर्घदीर्घतरसंसारप्रवृत्तिः सम्भवेत्, केवलं वादिनरपतिपरीक्षकाणामज्ञानापगमतः सम्यग्ज्ञानोन्मीलनं जायते, तथा च महदुपकारि ज्ञानमिति तदेव श्रेयः।
यत्पुनरुच्यते-'तीव्राध्यवसायनिष्पन्नः कर्मबन्धो दारुणविपाको भवतीति तदभ्युपगम्यते एव, न च तीव्रोऽध्यवसायो ज्ञाननिबन्धनः, अज्ञानिनोऽपि तस्य दर्शनात्, केवल ज्ञाने सति यदि कथञ्चित्कर्मदोषतोऽकार्येऽपि प्रवृत्तिरुपजायते तथापि ज्ञानवशतः प्रतिक्षणं संवेगभावतो न तीव्रः परिणामो भवति, तथाहि-यथा कञ्चित्पुरुषो राजादिदुष्टनियोगतो विपमिश्रमन्नं जानानोऽपि भयभीतमानसो भुंक्ते तथा सम्यग्ज्ञान्यपि कथञ्चित्कर्मदोषतोऽकार्यमाचरनपिसंसारदुःखभयभीतमानसः समाचरति, ननिःशङ्क, संसारभयभीतता च संवेग उच्यते, ततः संवेगशान तीव्रः परिणामो भवति, उक्तं च -
"जाणंतो सविसणं पवत्तमाणोऽवि बीहए जह उi न उ इयरो तह नाणी पवत्तमाणोऽवि संविग्गो।।१।। जं संवेगपहाणो अच्वंतसुहो य होइ परिणामो।
पावनिवित्ती य परा नेयं अन्नाणिणो उभयं ।।२।। ततो यदुक्तम्- 'अज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञान'मिति, तत्तेषां मृढमनस्कतासूचकमवगन्तव्यं, यदत्युक्तं--'भवेत् युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कत्तु पार्यते' इत्यादि, तदपि बालिशजल्पितं, यतो यद्यपि सर्वेऽपि दर्शननिः परस्परं भिन्नमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org