Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 217
________________ नन्दी - चूलिकासूत्रं अपिच-क्रीडा लोके सरागस्योपलभ्यते भगवांश्च वीतरागः ततः कथं तस्य क्रीडा सङ्गतिमङ्गति ?, अथ सोऽपि सराग इष्यते तर्हि शेषजन्तुरिवावीतरागत्वात् न सर्वज्ञो नापि सर्वस्य कर्तेत्यापतितं, अथ रागादियुतोऽपि सर्वज्ञः सर्वस्य कर्त्ता च भवति तथास्वभावत्वात् ततो न कश्चिद्दोषो, न हि स्वभावे पर्यनुयोगो घटनामुपपद्यते, उक्तं च-"इदमेव न वेत्येत्कस्य पर्यनुयोज्यातम् ? । अग्निर्दहति नाकाशं, कोऽत्र पर्यनुयुज्यताम् ? ॥" २१४ तदेतदसम्यक्, यत: प्रत्यक्षतस्तथारूपस्वभावे ऽवगते यदि पर्यनुयोगो विधीयते तत्रेदमुत्तरं विजृम्भते यथा स्वभावं पर्यनयोगो न भवतीति, यथा प्रत्यक्षेणोपलभ्यमाने वह्नेर्दाह्यं दहतो दाहकत्वरूपं स्वभावे, तथाहि यदि तत्र को ऽपि पर्यनुयोगमाधत्ते-यथा कथमेष वह्निर्दाहकस्वभावो जातो ?, यदि वस्तुत्वेन तर्हि व्योमापि किं न दाहकस्वभावं भवति ?, वस्तुत्वाविशेषादिति, तत्रेदमुत्तरं विधीयते, दाहकत्वरूपो हि स्वभावो वह्ने: प्रत्यक्षत एवोपलभ्यते, ततः कथमेष पर्यनुयोगमर्हति ? न हि दृष्टेऽनुपपन्नता नाम, तथा चोक्तम्"स्वभावेऽध्यक्षतः सिद्धे, यदि पर्यनुयुज्यते । तत्रेदमुत्तरं वाच्यं, न दृष्टेऽनुपपन्नता ॥" ईश्वरस्तु सर्वजगत्कर्तृत्वेन सर्वज्ञत्वेन च नोपलब्ध:, ततस्तत्र तथास्वभावत्वकल्पनाऽवश्यं पर्यनुयोगमाश्रयते, यदि पुनरदृष्टेऽपि तथास्वाभावत्वकल्पना पर्यनुयोगमा श्रयाऽभ्युपगम्येत तर्हि सर्वोऽपि वादी तं तं पक्षमाश्रयन् परेण विक्षोभितस्तत्र तत्र तथास्वभावता कल्पनेन परं निरुत्तरीकृत्य लब्धजयपताक एव भवेत्, उक्तं च “यत्किञ्चिदात्माऽभिमतं विधाय, निरुत्तरस्तत्र कृतः परेण । वस्तुस्वभावैरिति वाच्यमित्थं, तदोत्तरं स्याद्विजयी समस्तः ॥" किंच-सर्वं यदि जगदीश्वरकृतं मन्यते तर्हि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रवर्ततानीति प्राप्तं तानि च शास्त्राणि परस्परविरुद्धार्थानि ततोऽवश्यं कानिचित्त सत्यानि कानिचिदसत्यानि, ततः सत्यासत्योपदेशदानात् कथमसौ प्रमाणम् ?, उक्तं च "शास्त्रान्तराणि सर्वाणि यदीश्वराविकल्पतः । - सत्यासत्योपदेशश्च (स्य) प्रमाणं दानतः कथम् ? ।। " अथ न सकलानि शास्त्राणीश्वरेण कारितानि किन्तं सत्यान्येव ततो न कश्चिद्दोषावकाश:, तर्हि शास्त्रान्तरदेव नेश्वरेणान्यदपि व्यधायीति हता तव पक्षसिद्धिरिति । अन्यच्च यादृग्भूतं संस्थानादि बुद्धिमत्कारणपूर्वकत्वेनोपलब्धं तादृग्भूतमेवान्यत्रापि बुद्धिमन्तमात्मनो हेतुमनुमापयति, तथाप्रतीतेरभावात्, तद्गतस्य संस्थानदेर्बुद्धिमत्कारणत्वेवन निश्चयाभावात्, तथा भूभूधरादिगतमपि संस्थानादिकं न बुद्धिमत्कारणपूर्वकत्वेन निश्चितमिति कथं तद्वशाद्बुद्धिमतः, कर्त्तुरनुमानम् ?, अथ मन्येथाः - तदपि संस्थानादि तादृग्भूतमेव संस्थानादिशब्दावाच्यत्वात्, न चैवं तत्कर्तुर्बुद्धिमतोऽनुमाने काञ्चिदपि बाधामुपलभामहे ततः सर्वं सुस्थमिति, तदयुक्तं, शब्दा हि रूढिवशाज्जात्यन्तरेऽपि प्रवर्तन्ते, ततः शब्दसाम्याद्यदि तथारूपवस्त्वनुमानं तहि गोत्वाद्वागादीनामपि विषाणिताऽनुमीयतां, विशेषाभावात्, अथ तत्र प्रत्यक्षेण बाधोपलभ्यते ईश्वरानुमाने तु न Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265