________________
नन्दी - चूलिकासूत्रं
अपिच-क्रीडा लोके सरागस्योपलभ्यते भगवांश्च वीतरागः ततः कथं तस्य क्रीडा सङ्गतिमङ्गति ?, अथ सोऽपि सराग इष्यते तर्हि शेषजन्तुरिवावीतरागत्वात् न सर्वज्ञो नापि सर्वस्य कर्तेत्यापतितं, अथ रागादियुतोऽपि सर्वज्ञः सर्वस्य कर्त्ता च भवति तथास्वभावत्वात् ततो न कश्चिद्दोषो, न हि स्वभावे पर्यनुयोगो घटनामुपपद्यते, उक्तं च-"इदमेव न वेत्येत्कस्य पर्यनुयोज्यातम् ? । अग्निर्दहति नाकाशं, कोऽत्र पर्यनुयुज्यताम् ? ॥"
२१४
तदेतदसम्यक्, यत: प्रत्यक्षतस्तथारूपस्वभावे ऽवगते यदि पर्यनुयोगो विधीयते तत्रेदमुत्तरं विजृम्भते यथा स्वभावं पर्यनयोगो न भवतीति, यथा प्रत्यक्षेणोपलभ्यमाने वह्नेर्दाह्यं दहतो दाहकत्वरूपं स्वभावे, तथाहि यदि तत्र को ऽपि पर्यनुयोगमाधत्ते-यथा कथमेष वह्निर्दाहकस्वभावो जातो ?, यदि वस्तुत्वेन तर्हि व्योमापि किं न दाहकस्वभावं भवति ?, वस्तुत्वाविशेषादिति, तत्रेदमुत्तरं विधीयते, दाहकत्वरूपो हि स्वभावो वह्ने: प्रत्यक्षत एवोपलभ्यते, ततः कथमेष पर्यनुयोगमर्हति ? न हि दृष्टेऽनुपपन्नता नाम, तथा चोक्तम्"स्वभावेऽध्यक्षतः सिद्धे, यदि पर्यनुयुज्यते ।
तत्रेदमुत्तरं वाच्यं, न दृष्टेऽनुपपन्नता ॥"
ईश्वरस्तु सर्वजगत्कर्तृत्वेन सर्वज्ञत्वेन च नोपलब्ध:, ततस्तत्र तथास्वभावत्वकल्पनाऽवश्यं पर्यनुयोगमाश्रयते, यदि पुनरदृष्टेऽपि तथास्वाभावत्वकल्पना पर्यनुयोगमा श्रयाऽभ्युपगम्येत तर्हि सर्वोऽपि वादी तं तं पक्षमाश्रयन् परेण विक्षोभितस्तत्र तत्र तथास्वभावता कल्पनेन परं निरुत्तरीकृत्य लब्धजयपताक एव भवेत्, उक्तं च
“यत्किञ्चिदात्माऽभिमतं विधाय, निरुत्तरस्तत्र कृतः परेण ।
वस्तुस्वभावैरिति वाच्यमित्थं, तदोत्तरं स्याद्विजयी समस्तः ॥"
किंच-सर्वं यदि जगदीश्वरकृतं मन्यते तर्हि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रवर्ततानीति प्राप्तं तानि च शास्त्राणि परस्परविरुद्धार्थानि ततोऽवश्यं कानिचित्त सत्यानि कानिचिदसत्यानि, ततः सत्यासत्योपदेशदानात् कथमसौ प्रमाणम् ?, उक्तं च "शास्त्रान्तराणि सर्वाणि यदीश्वराविकल्पतः ।
-
सत्यासत्योपदेशश्च (स्य) प्रमाणं दानतः कथम् ? ।। "
अथ न सकलानि शास्त्राणीश्वरेण कारितानि किन्तं सत्यान्येव ततो न कश्चिद्दोषावकाश:, तर्हि शास्त्रान्तरदेव नेश्वरेणान्यदपि व्यधायीति हता तव पक्षसिद्धिरिति । अन्यच्च यादृग्भूतं संस्थानादि बुद्धिमत्कारणपूर्वकत्वेनोपलब्धं तादृग्भूतमेवान्यत्रापि बुद्धिमन्तमात्मनो हेतुमनुमापयति, तथाप्रतीतेरभावात्, तद्गतस्य संस्थानदेर्बुद्धिमत्कारणत्वेवन निश्चयाभावात्, तथा भूभूधरादिगतमपि संस्थानादिकं न बुद्धिमत्कारणपूर्वकत्वेन निश्चितमिति कथं तद्वशाद्बुद्धिमतः, कर्त्तुरनुमानम् ?, अथ मन्येथाः - तदपि संस्थानादि तादृग्भूतमेव संस्थानादिशब्दावाच्यत्वात्, न चैवं तत्कर्तुर्बुद्धिमतोऽनुमाने काञ्चिदपि बाधामुपलभामहे ततः सर्वं सुस्थमिति, तदयुक्तं, शब्दा हि रूढिवशाज्जात्यन्तरेऽपि प्रवर्तन्ते, ततः शब्दसाम्याद्यदि तथारूपवस्त्वनुमानं तहि गोत्वाद्वागादीनामपि विषाणिताऽनुमीयतां, विशेषाभावात्, अथ तत्र प्रत्यक्षेण बाधोपलभ्यते ईश्वरानुमाने तु न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org